________________
सबसे कः ।
१३५
अथ षः। षसो द्विपकारः । पूर्वपदार्थप्रधान उत्तरपदाप्रपानोति । सत्र पूर्वपदार्थप्रधानो यथा- पूर्व काय इति स्थिते- पूर्वशब्दात्सुः । कायशब्दात् ङस् । पूर्व कायस्येति विगृहे--
४२६ । पूर्वापराघरोत्तरमभिन्नांशिना । ११३॥ ६७। अंशोऽवयव एकदेशस्तद्वान् अंशी । पूर्वादीनि सुक्तानि अंशवाचीनि अंशिवाचिना सुबतेनाभिन्नेन सह षसो भवति । पूर्ववदन्यत्। पूर्वकायः । एवमपरकायः । अघरकायः । उत्तरकायः॥ अर्द्ध पिप्पल्या इति विगृह्य
४३० । भर्द्धनप् ।१ । ३ । ६८ । अर्द्धमित्येतन्नपुंसकलिंग अंशवाचि सुवंतं सुबंतनांशिवाचिना सह पसो भवति न चेत्सोंऽशी भिन्नः । पूर्ववदन्यत् । खागोर्नीच इति प्रादशःप्राप्तः नांशीयसो बे-इति प्रतिषिद्धः । अद्धपिप्पली । अर्द्धकोशातकी । अर्द्धखट्वा ।। उत्तरपदार्थप्रधानो यथा-धर्म श्रित इति स्थितेधर्मशब्दादम् । धितशब्दात्युः । धर्म श्रित इति विगृह्य
४३१ । 'इप्सच्छ्रितादिभिः।१।३ । २२ । इचंत पूर्वपदं ताभ्यां प्राप्तापन्नाभ्यां श्रितादिभिश्च सुचतैः सह षसो मवति । पूर्ववच्छेवं । श्रितराब्दस्य क्रियावाचित्वादाच्यालगता । धर्मश्रितः | धर्मश्रिता । धर्मश्रितं । एवं दुःखातीतः । इत्यादि ।। शंकुला खण्डवदिति स्थिते- शंकुलाशब्दाहा । खण्डवच्छब्दारसुः ।
१ अस्य स्थान-स्पतच्छूिताप्तीतपतितगतात्यस्तः । १३।२। . इलि सर्व महावृत्ती।