________________
१३४
जैनेंद्रपक्रियायां -
सह हसो भवति खुविषये प्रतिपदे मात्र संज्ञा गम्यते । इति नित्यः सविधिः । सादृश्यमाणार्थकथनाय विग्रहः । उन्मत्तगंगा यस्मिन्निति उन्मत्तगंगं । लोहितगंगं । शनैगंगं । तूष्णींगंगं । एवं नामानो देशाः । केश केश | दण्ड दण्ड । इति स्थितेसर्वतो अस् । केशाश्च केशाश्च परस्परस्य ग्रहणं यस्मिन् युद्धे । दण्डाश्च दण्डाश्चान्योन्यमहरणं यस्मिन् युद्धे इति विगृष्ण
४२६ । 'झे ग्रहणे प्रहरणे च सरूपं युद्धे | १|३|१६| गृह्णति यस्मिन् तत् ग्रहणं । प्रहरंति येन तत् प्रहरणं ! जायें कर्मव्यतिहारे वर्तमाने ग्रहणे प्रहरणे च समानश्रुतिकं सुबत प्रत्यासत्त्या तत्रैव वर्तमानेन सुबतेन सह हसो भवति युद्धे ऽभि धेये । पूर्ववदन्यत् । सांत इति वर्तमाने
-
―
४२७ 1 इत्र | ४२/२०१ | आयें यः सविधिरक्तः ततं इच् त्यो भवति । चकारः तिष्ठद्ग्बादिषु इजिति विशेषणार्थ: । परित्यकारस्य खं ।
४२८ | इय्यात् |४|३ २६८ इजितिय जुक्तस्तदंते यौ पूर्वस्य प्रायः श्रकारो भवति । ततः स्वादयः । केशेषु च केशेषु गृहीत्वा युध्यंते तत् केशाकेशीत्युच्यते । एवं कचाकचि । दंडैश्व दंडैश्च प्रहृत्य युध्यते तद् दंडादंड । मुष्टामुष्टि । प्राय इति किं ? अस्यसि । प्राय इत्यधिकारात् क्वचिदाकाशे न भवति ॥ इति हसः ।
-
१। अस्य स्थाने तवेदमिति सरूपे ११ । ३ । ८२ । इति सूत्रं ।