________________
११२
कैमरा -
भूयान्मित्राय । पथ्यं भूयान्मित्राय । हृद्यं भूयान्मित्राय । मित्रस्य वा । अर्थो भवतु जैनाय । प्रयोजनं भवतु जैनाय । कार्य भवतु जैनाय जैनस्य वा । क्व पुनः का
३६५ | कापादाने | १ । ४ । ४१ । अपादाने कारके का विभक्ती भवति । ग्रामादपैति । श्रामादागच्छति । पर्वतादवरोहति । श्रश्वाद्धावतः पतितः । गच्छतः सार्थादवहीनः । देवदत्तो जिनदचादागतः । मेषौ परस्परतो ऽपसर्पतः । श्रृंगारो जायते । वीजादंकुरो रोहति । तस्मादात्मानं प्रतिलभमानो निःसरतीति प्रतीयते । गंगा हिमवतः प्रभवति । महाहिमवतो रोहित् प्रभवति । तत्र प्रथममुपलभ्यमाना ततो निःसरतीति प्रतीयते । कुतो भवान् । पाटलिपुत्रात् । कुतो भवानागच्छति । पाटलिपुत्रादागच्छामीति प्रतीयते । गवेधुमतः शांकास्यं चतुर्षु योजनेषु । ततो निसृत्य गतेषु भवतीति प्रतीयते । कार्तिक्याः आमहायणी मासे । ततः प्रभृति मासे गते भवतीति प्रतीयते । अधर्माज्जुगुप्सते । श्रधर्माद्विरमति । अधर्मात् मीमांसते । धीमान् अधर्मो दुःखहेतुरिति बुद्धया ततो निवर्तते इति प्रतीयते । धर्मा प्रमाद्यति । भोजनात् पराजयते । अध्ययनात्परा भवति । भावेन ततोऽन्यो निभूय निवर्तते इति प्रतीयते । व्याघ्राद्विभेति । चौरेभ्यः त्रस्यति । चेतसः क्षोभपूर्वकं ततो निवर्तते इति प्रतीयते । चौरेभ्यः रक्षति । दस्युभ्यस्त्रायते । तदुपघातविषयप्रतिकारेण ततो निवर्तते इति प्रतीयते । यवेभ्यो गां वारयति । अकार्यात्