________________
विभक्त्यर्थः ।
१२९
धर्मै मोक्षाय मेघावी घनं दानाय भक्तये ॥ १ ॥ ३६३ । शकथनमःस्वस्तिस्वाहावषड्स्वधाहितैः | १ | ४ | २६ | शक्तार्थैः शब्दैः नमस्स्वस्तिस्वाहा वषस्ववाहित इत्येतैश्च योगे उपाधौ अप् विभक्ती भवति । शक्तो जिनदत्त देवदत्ताय । मल्लो मल्लाय प्रभवति । नमोस्तु परमेष्ठिने । स्वस्ति मातृपितृभ्यां । इन्द्रद्राणीभ्यां स्वाहा । वषड् अग्निभ्यः । स्वधा उपाध्यायेभ्यः । हितं मातृपितृभ्यां । व्यस्य वा कर्तरीत्यतो वेति वर्ततमाने
३६४ | मद्रक्षेमायुः शंहितार्थाथैराशिष्यप् । १ । ४ । ८६ । मद्राः क्षेमार्थैरायुरार्थेः समर्थैर्हितार्थैश्च शब्दयोंगे उपाधौ वर्तमानात् ड्याम्मृदोर्वा ऽब्विभक्ती भवति श्राशीर्विषये पक्षे ता भवति । मद्रमस्तु जिनशासनाय । मद्रमस्तु जिनशास नस्य । भद्रमस्तु जैनाय । भद्रमस्तु जैनस्य । कल्याणमस्तु जैनस्य । क्षेममस्तु संघाय । क्षेममस्तु संघस्य । कुशलमस्तु संघाय | निरामयमस्तु संधाय । संघस्य वा । दीर्घमायुरस्तु भव्याय । बहुजीवितमस्तु भव्याय । भव्यस्य वा । शमस्तु प्रजाभ्यः । शुभमस्तु प्रजाभ्यः । शर्म अस्तु प्रजाभ्यः । प्रजानां वा । हितं
१। अस्य स्थान- नमः स्वस्तिस्वाहास्वद्यालंक्यड्योग । १ । ४ । २६ । इति ।
२ । अस्य स्थाने अचाशिष्यायुष्य मद्रभद्रकुशलसुखहिताथैः । १ । ४ । ७७ । इति सूत्रं ॥
1