________________
स्रीत्याः ।
अथ स्त्रीत्याः । ड्याम्मृदः, स्त्रियामिति च वर्तमाने३६० । मजायतां टाप ।३।१४ अज इत्येवमादीनां अकारांतानां च मृदां वाच्यायां स्त्रियां द्योत्यायां ततष्टाबित्ययं त्यो भवति ॥ बाधकबाधनांचे अजादीनामुपादान । अनकारान्तार्थ च । अजा | एडका । अश्वा । चटिका । मूषिका । कोकिला ! अत्र जातिलक्षणस्य ड्यो बाधा । वाला । होदा । पाका । मत्सा । मन्दा। वत्सा । अत्र वयोलक्षणस्य ड्यो बाधा । पूर्वापहाणा । अपरापहाणा । परम्हाणा । अत्र टिल्लक्षयस्य निपातनारणत्वमायोः । त्रिफला । अन्न रलक्षणस्य । क्रुचा । उपिणहा। देवविशा । अत्र हलतत्वादत इति अप्राप्तः । अतः खल्वपि । खट्वा । देवदत्ता। या । सा। कारिषगन्ध्या। ऋोड्या । टाबन्तानां दयाशब्दवद्रूपसिद्धिः ।
३६१ । रक्युगिन्लञ्चोः ।३।१।५ । उगिदन्तात् ऋकारान्तात् अञ्जत्यन्ताच्च मृदः स्त्रियां वर्तमानात्
डीत्यो भवति । उगित:-गोमतु । गोमती। श्रेयसु । श्रेयसी । । विद्वसु । विदुषी । वसो वयोश् । भवतु । भवती । तत्रभवती ।
कृतवतु । ऋतुवती । अतिपुंस | अतिपुंसी । ऋदितः-महत । महती । दधतृ । दधती । सुदत । सुदती। इत्यादि । ऋतःकर्ती। हो । धात्री। भी । भाक्त्री। पवित्री। सवित्री। क्रोष्ट्री।
अस्य स्थान अजायताम् । ३ ।१ । ४ । इति सूत्र । २॥ अस्य स्थान -उगिहन्नान्डी । ३।९।६ । इति सत्र ।
-.--... . . .
---