SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ युष्मदस्मदावलिंगौ । २०७ स्मदोः प्राप्तकवचनांतयोर्यथासंख्यं ते मे इत्येतावादेशौ भवतः । दानं ते दीयते । दानं मे दयिते । शीलं मे स्वं । शीलं ते स्वं । ३५५ | त्वामेपः | ३ | ३ | २७ | वाक्यस्यावयवयोंस्तद्वाक्यावयवात् पदात् परयोरपादादौ वर्तमानयोः युष्मदस्मभन्न स्वामित्येतस्व मन्तस्य मा इत्ययमादेशः । धर्मस्त्वा रक्षतु । धर्मो मा रक्षतु । पुते वान्नावाद्यादेशाः जनन्वादेशे विभाषिता वेदितव्याः / अन्वादेशे तु नित्यमिति । ३५६ | बोध्यं प्राङ्नेव | ५ | ३ | ३२| बोध्यांतं पदं युष्मदस्मद्भ्यां पूर्ववन्नेवाविद्यमानवद् भवति । किमसद्भावे प्रयोजनम् ? बान्नावादेशनिवृत्तिः । देवदत्त युवाभ्यां दीयते शीलं । देवदत्त आवाभ्यां शीलं दीयते । देवदत्त युवां धर्मो रक्षतु । देवदत्त आवां धर्मो रक्षतु । देवदत्त युवयोः शीलं स्वं । देवदत्त श्रावयोः शीलं स्वम् । देवदत्त युष्मभ्यं शीलं दीयते । देवदत्त अस्मभ्यं शीलं दीयते । देवदत्त युष्मान् रक्षतु धर्मः ! देवदत्त अस्मान् रक्षतु धर्मः । देवदत्त युष्माकं शीलं स्वं । देवदत्त अस्माकं शीलं स्वं । एवं इतरत्रापि बोध्यं । ३५७ । न चवाहाहैवयोगे | ५ | ३ | २८ | च चाह अह एव इत्येतैः शब्दयोगे संबंधे युष्मदस्मदोवन्नावाद्या१ । अस्य स्थाने स्थामा विपः । ५ । ३ । १९ । इति सूत्रं । २ ) अस्य स्थाने "बोध्यमवद् । ५ । ३ । २४ । इति सूत्रं ।
SR No.090210
Book TitleJainendra Prakriya Part 1
Original Sutra AuthorGunanandi Acharya
AuthorShreelal Jain Vyakaranshastri
PublisherBharatiya Jain Siddhant Prakashini Sanstha
Publication Year
Total Pages160
LanguageHindi
ClassificationBook_Devnagari, Devotion, & Worship
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy