________________
तथा
इंदियचवलतुरंगे दोग्गइमग्गाणुधाविरे नि । भावियभवस्सरूवो संभइ सन्नाणरस्सीहिं ॥ ६१ ॥
इन्द्रियाण्येव चपलाः शीघ्रगामित्वेन तुरङ्गाः अश्वास्तान् दुर्गतिमार्ग दुर्योनिपदवीमनुधाविरान् धावनशीलान् 'नित्यम् ' सदा भावितं पुनः पुनरालोचितं भवस्वरूपं येन स तथाविधो 'रुद्धि' निवर्तयति सतीभिः शोभनाभिर्ज्ञानरश्मिभिः श्रुतवगाभिः । तद्यथा - " तवकुलछायाभ्रंसं पंडिबकंसणा अधिट्टपहं । वसणाणि रणमुहाणि य इंदियवसगा अणुहवंति ॥ १ " तथा" विसरजनिसारैः सारीतं पक्षगेहं समयफलक मेतन्मण्डितं भूतधात्र्याम् । इह हि जयति कश्चिन्मोक्षमक्षैर्विधेयैरधिगतमपि चान्ये रियन्ति ॥ १ ॥ " २ ॥ ६१ ॥
तथा
सयलाणत्थनिमित्तं आयासकिलेसकारणमसारं । नाऊण षणं धीरो न हु लुब्भइ तंमि तपि ॥६२॥
इह धनं ज्ञात्वा तत्र न लभ्यतीति योगः । किंविशिष्टं धनम् ? ' सकलानर्थनिमित्तं ' समस्तदुःखनिबन्धनम् । उक्तं च'अर्थानामर्जने दुःखमर्जितानां च रक्षणे । नाशे दुःख व्यये दुःखं धिगर्थौ दुःखभाजनम् ॥ १ ॥ " तथा 'आयासः' चित्तखेदः । यथा - " राजा राक्ष्यति किं तु मे हुतवहो दग्धा किमेतद्धनं किं चामी प्रभविष्णवः कृतनिभं लास्यन्त्यदोगोत्रिकाः । आदा. स्यन्ति च दस्यवः किमु तथा नष्टा निखातं भुवि ध्याय नेतदहर्निशं धनयुतोऽप्यास्तेतरां दुःखितः ॥ १ ॥ तथा 'क्लेशः ' शरीरपरिश्रमस्तयोः ' कारणं ' निबन्धनम् । तथा हि- " अर्थार्थ नक्रचकाकुलजलधिमलं केचिदुच्चैस्तरन्ति प्रोद्यच्छखाभिघातोत्थितशि
46