________________
धर्मरत्नप्रकरणम्
॥ ४३ ॥
'अरक्तद्विष्टश्च ' सांसारिकभावेषु भवति । ' मध्यस्थः ' धर्मविचारे ' न रागद्वेषाभ्यां बाध्यते ' असंबद्धः ' धनस्वजनादिषु भावप्रतिबन्धरहितः । 'परार्थकामोपभोगी ' परोपरोधादेव कामेषु शब्दरूपरूपेषु, भोगेषु गन्धरसस्पर्शेषु प्रवर्त्तते । तथा 'वेश्येव ' पण्यस्त्रीव कामिनमिति गम्यते । 'गृहवासं पालयति ' अद्य श्वो वा परित्यजाम्येनमिति भावयत्रिति सप्तदशविधपदनिबद्धं 'तुः ' पूरणे । ' भावगतं ' परिणामरूपमिति जातावेकवचनं, अनुस्वारस्य प्राकृतशैल्या लुप्तत्वात् । उक्तं च--" नीयालोवमभूयाय आणिया दोवि बिंदुदुब्भावा । अत्थं गर्मिति तं चिय जो तेसिं पुव्वमेवासि ॥ १ ॥ " भावभावकलक्षणमेतत् ' समासेण' सूचामात्रेण । इति गाथार्थः ॥ ५९ ॥
सांप्रतमेषामेव भावार्थ प्रचिकटयिषुर्गाथासप्तदशकमाह
इत्थीमणत्थभवणं चलचित्तं नरयवत्तिणीभूयं । जाणंतो हियकामी वसवत्ती होइ न हु तोसे ॥ ६० ॥
'स्त्रीम् ' योपितमनर्थानां दोषाणां भवनमाश्रयस्थानम् । तद्यथा - " अनृतं साहसं माया मूर्खत्वमतिलोभता । अशौचं निर्दयत्वं च स्त्रीणां दोषाः स्वभावजाः ॥ १ ॥ " तथा 'चलचिसाम्' अन्यान्याभिलाषिणीम् । उक्तं च - " अन्नं ज्झायंति मणे पेसल - वयणाई दिति अन्नस्स । दिट्ठीए निमंतयतनं रमंति कारण पुण अन्नं ॥ १ ॥ " तथा नरकस्य वर्त्तिनीभूतां मार्गकल्पां 'जानन् ' अवगच्छन् ' हितकामी ' श्रेयोऽमिलापकः ' वशवर्त्ती ' तदधीनचारी ' भवति ' स्यात् 'न हु' नैव 'तस्याः' स्त्रिय उष्ट्रपत्रविक्रयकवत् । भावयति च - " आनायास्तिमिसंहतेरिव दृढाः पाशागतानामिव प्रास्तीर्णा इव सर्वदिक्षु हरिणवातस्य वा वागुराः । स्वैरभ्रान्तिभृतः पतत्रिनिवहस्यैवाहिताः स्कन्धकाः संसारेऽत्र विवेकमुक्तमनसां बन्धाय वामभ्रुवः ॥ १ ॥ " १ ॥ ६०॥
स्वोपज्ञवृत्तियुक्तम्
।। ४३ ।।