________________
धर्मरत्रप्रकरणम्
स्वोपनवृत्तियुक्तम्
॥४४॥
खिकणकं जन्यमन्ये विशन्ति । शीतोष्णाम्भःसमीरग्लपिततनुलताः क्षेत्रिकां कुर्वतेज्ये शिल्पं चानल्पभेदं विदधति च परे नाटकाचं, च केचित् ॥१॥" तथा 'असारं ' सारफलासंपादनात् । उक्तं च-" व्याधीनो निरुणद्धि मृत्युजननज्यानिक्षये न धर्म नेष्टानिष्टवियोगयोगहृतिकृत्सध्यङन जन्मान्तरे । चिन्ताबन्धुविरोधबन्धनवधनासास्पद प्रायशो वित्तं वित्तविचक्षणः क्षणमपि क्षेमावहं नेक्षते ॥१॥" इत्थंभृतं धनं ज्ञात्वा 'न हु लुभ्यति ' नैव तत्र गृध्यति ('धीरो' धीमान् , 'तस्मिन् ' द्रव्ये,) मम्मणवणिग्वत् । 'तनुकमपि ' स्तोकमप्यास्तां बहित्यपेरर्थः । भावश्रावको हि नान्यायेन तदुपार्जनाय प्रवर्तते । नाऽप्युपार्जितेऽतितणावान् स्यात् । किं तहिं ?-“पादमायानिधिं कुर्यात् पाद वित्ताय खण्डयेत् । धर्मोपभोगयोः पादं पादं भर्तव्यपोषणे ॥१॥ इच्छतो निच्छतो वापि मामकं द्रविणं सदा। चैत्यसाधूपभोगाय भूयात् सर्व भवे भवे ॥२॥" इति मनोरथवांस्तत्पालनादि करोतीति भावः ३॥६२॥५
तथादुहरूवं दुक्खफलं दुहाणुबन्धि विडंबणारूवं । संसारमसारं जाणिऊण न रई तहिं कुणइ ॥ ६३॥
इहापि तत्र संसारे रतिं न करोतीति योज्यम् । किं कृत्वा ? ज्ञात्वा संसारम् । किविशिष्टम् ? ' दुःवरूपं ' दुःखस्वभावम् । तदुक्तम-"जम्मं दुक्ख जरा दुक्ख रोगा य मरणाणि य । अहो! दुक्खो हु संसारो जत्थ किस्संति जंतुणो ॥१॥" तथा 'दुःखफलं ' जन्मान्तरे नरकादिदुःखभावात् । 'दुहाणुबंधि' इति दुःखानुबन्धिनं पुनः पुनर्दुःखसन्तानसन्धानात् । तथा चाह" जाव इमो संसारो जाव य जीवस्स एत्थ आवासो । ता जम्मणमरणाणं कत्तो अंतो अणताणं ॥१॥” तथा विडम्बनायामिव जीवानां विचित्राणि रूपाणि यत्र स तथा । पठ्यते च-" देवो नेरइओति य कीडपयंगोत्ति माणुसो वेसो । स्वस्सी य विरूवो
॥४४॥