________________
UCCESS
सुहभागी दुक्खभागीय ॥१॥” इत्यादि । एवंविधं 'संसारं ' चतुर्गतिरूपं सुखसाराभावादसारं 'ज्ञात्वा' अवबुध्य न रति' धृति तस्मिन् — कुरुते' विदधाति भावश्रावकः । चिन्तयति च-" धन्ना ते सप्पुरिसा जे नवरमणुत्तरं गया मोक्खं । जम्हा ते जीवाणं न कारणं कम्मबंधस्स ॥१॥" इति ४॥ ६३॥
तथा- . . . . खणमेत्तसुहे विसए विसोवमाणे सयावि मन्नंतो। तेस न करेइ गिद्धिं भवभीरू मुणियतत्तत्थो ॥१४॥
क्षणमात्रं सुखं येभ्यस्ते, तथा तान् ‘विषयान्' शब्दादीन 'विषोपमानान्' परिणामदारुणान् 'सदाऽपि' नैकदैव 'जानान' बुध्यमानो, यथा किल विषं भुज्यमानं मधुरमास्वादं दर्शयति, परिणामे तु प्राणग्रहाणाय संपद्यते । एवमेतेऽपि विषया विरसावसानाः। यदाह वाचक:-"आदावत्यभ्युदया मध्ये शृङ्गारहास्यदीप्तरसाः । निकषे विषया बीभत्सकरुणलजाभयपायाः॥१॥ यद्यपि निषेव्यमाणा मनसः परितुष्टिकारका विषयाः। किपागफलादनवदभवन्ति पश्चादतिदुरन्ताः ॥२॥ इत्यवगच्छन् भावश्रावकः तेषु न कुर्यात् 'गृद्धि' अत्यासक्तिं 'भवभीरु: ' संसारवासचकितमनाः । भावयति च--" सम्मट्ठिीवि कयागमोवि अइविसयरागसुहवसगो। भवसंकडंमि पविसइ एत्थं तुह सच्चई नायं ॥१॥"किमिति गृद्धि न करोति ? यतो 'मुणिततत्त्वार्थः' जिनवचनश्रवणाद्विज्ञाततदसारत्वः । तथा हि जिनवचनम्-"विसएसनस्थि सोक्खं सुहाहिमाणो जियाय पुण एसो। पित्ताउरनयणाणं उपलंमि सुवनबुद्धि व ॥१॥" तथा-भुजंता महरा क्विागविरसा किंपागतल्ला इमे कच्छू कंड्रयणं च दुक्खजणया भाविति बुद्धिं सुहे। मज्झण्हे मयतिव्हिय व निययं मिच्छाभिसंधिप्पया भुत्ता दिति कुजोणिजम्मगहणं भोया महावेरिणो ॥१॥" ५ ॥६४ ॥
R-OCTO