________________
स्वोपन
धर्मरत्नप्रकरणम्
वृत्तियुक्तम्
॥४५॥
तथावजइ तिवारंभं कुणइ अकामो अनिव्वहंतो उ।थुणइ निरारंभजणं दयालुओ सव्वजीवेसु ॥६५॥ _ 'वर्जयति' न करोति 'तीप्रारम्भ ' प्राज्यमाणिपीडाहेतुं व्यवसायं खरकर्मादिकं, तुण्डणकुमारादिवृत्तान्ताकर्णनात् । करोति 'अकामः' मन्दादरः, तं विना 'अनिर्वहन् ' तुशब्दो विशेषणार्थः, किं विशिनष्टि ? सशूको गुरुलाघवालोचनपूर्वकं न निर्घन्धसवृत्त्येति । यतः-“सम्मद्दिड्डी जीवो जइविहु पावं समायरइ किंचि । अप्पोसि होइ बंधो जेण न निद्धंधसं कुणइ ॥१॥" तथा 'स्तौति' प्रशंसति 'निरारम्भजन' साधुलोकम् । एवम्-“धना हु महामुणिणो मणसावि करति जे न परपीडं। आरंभपावविरया मुंजंति तिकोडिपरिसद्धं ॥१॥" तथा 'दयालुकः' पावान 'सर्वजीयेषु' समस्तप्राणिषु।-" एगस्स कए नियजीवियस्स बहुयाउ जीवकोडीओ। दुक्खे ठति जे केइ ताण किं सासयं जीयं ? ॥१॥" इत्यादि भावयन् भावश्रावकः ६। इति गाथार्थः॥६५॥
तथा| गिहवासं पास पिव मन्नतो वसइ दुक्खिओ तंमि । चारित्तमोहणिजं निजिणिउं उज्जमं कुणइ ।। ६६॥
'गृहवास"गृहस्थतां 'पार्श' बन्धनविशेषमिव 'मन्यमानः' भावयन 'वसति' अवतिष्ठसे 'दुःखितः' दुःखवान् 'तस्मिन्' गृहवासे । यथा हि किल पाशपतितो विहङ्गमो नोत्पतितुं शक्रोति, कष्टं च तत्रावस्थानं कलयति । तथा वयमपि संसारभीखोऽपि न प्रबजितुं शक्नुम इति । अपि च-" नागो जहा पंकजलावसनो दह्र थलं नाहिसमेइ तीरं । एवं वयं कामगुणेसु गिदा न
॥४५॥