SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ भिक्खुणो मग्गमणुव्वयामो ॥ १ ॥ " इत्यादि चिन्तयन् दुःखित इव गृहे तिष्ठति भावश्रावक इति । अत एव ' चारित्रमोहनीयं ' कर्म 'निर्जेतुं' अभिभवितुं 'उद्यमं ' प्रयत्नं ' करोति' चारित्रवतां दानसन्मानविनयप्रभावनादौ सर्वादरेण प्रवर्त्तते, अप्रीतिनिन्दालेशमपि न करोति । यतः -- “ एते निर्वृतिहेतवो मुनिगुणा निन्दाकृतां दुर्लभा नृणां सन्ति भवान्तरेऽपि सुलभाः सस्नेहपूजाकृताम् । तस्मान्निर्वृतिलिप्सुना मुनिजने कार्यों विचार्याद द्वेषोऽनर्थकदर्थनैक निलयो हेयः सदा दूरतः ॥ १ ॥ " इति ७ ॥ ६६ ॥ तथा अस्थिक्कभावकलिओ पभावणा वन्नवायमाइहिं । गुरुभत्तिजुओ धीमं धरेइ सइ दंसणं विमलं ॥ ६७ ॥ भावश्रावको 'दर्शनं ' सम्यक्त्वं ' विमलं ' अकलङ्कं धारयतीति पर्यन्ते योगः । कथंभूतः सन् ? इत्याह — देवगुरुधर्मतत्त्वेष्वास्तिक्यरूपो यो भावः परिणामस्तेन कलितो युक्तः । - "मोत्तण जिणं मोनूण जिणमयं जिणमए ठिए मोतु । संसारकन्तवारं सधम्मकम्मं जगं सेसं ॥ १ ॥ " इति निश्चयसारप्रतिपत्तिः । ' प्रभावना ' उत्सर्पणा अष्टप्रकाराः । उक्तं च- “ पावयणी धम्मकही वाई नेमित्तिओ तवस्सी य। विजासिद्धो य कवी अद्वेव पभावगा भणिया ॥ १ ॥ " तस्याः शक्तितः स्वयंकरणेन शक्त्यभावेन तत्कारिणामुपष्टम्भबहुमानतः । तथा 'वर्णवाद: ' प्रशंसनम् । आदिशब्दाच्चैत्यायतनयात्रातीर्थयात्रादिभिः करणभूतैः । गुरुर्धर्माचार्यस्तत्र विशेषतो भक्तियुक्तः । कृतज्ञतासारमिदमालोचयन् - " संमत्तदायगाणं दुष्पडियारं भवेसु बहुए । सव्वगुणमेलियाहिवि उवयारसहस्सकोडिहिं ॥ १ ॥ " ( ' धीमान् ' मतिमान् 'सदा ' निरन्तरं ) इत्थं निष्कलङ्कं दर्शनं धारयति ८ । इति गाथार्थः ॥६७॥ तथा
SR No.090134
Book TitleDharmaratnaprakaranam
Original Sutra AuthorShantisuri
Author
PublisherJain Granth Prakashak Sabha
Publication Year1953
Total Pages178
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Religion, & Principle
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy