________________
| वहइ सइ पक्खवायं विहिसारे सव्वधम्मणुहाणे । देसद्धादणुरुवं जाणइ गीयर्थववहारं ॥५४॥ | 'उचितं' योग्यं श्रावकभूमिकायाः, 'अधीते' पठति 'सूत्र' प्रवचनमात्रादिषड्जीवनिकान्तम् । उक्तं च-“पवयणमाई
छज्जीवणियंता उभयओवि इयरस । " ग्रहणशिक्षेति तत्र प्रकृतम् । उभयतः सूत्रतोऽर्थतम । इतरस्य श्रावकस्येदं विशिष्टम् । श्रावकमधिकृत्योच्यते-सामान्यश्रावकस्तु संग्रहणीकर्मग्रन्थोपदेशमालादिप्रकरणसन्दोहमाचार्यादिप्रसादीकृतमन्यदपि पठतीति सूत्रे कौशलमानोति १ । तथा शुणोति तस्य सूत्रस्यार्थ तथा' तेनैव प्रकारेण स्वभूमिकौचित्यरूपेण 'सुतीर्थे ' सुगुरुमूले । यत आह: -"तित्थे मुत्तत्थाणं गहणं विहिणा उ एत्थ तिथमिणं । उभयन्नू चेव गुरू विही उ विणयाइओचित्तो ॥७॥ इत्यादि । अनेन यते श्रावकस्य च गुरुसमीप एव मूत्रार्थग्रहणं युक्तमुक्तम् । यत आह-"गुर्वायत्ता यस्माच्छाखारम्भा भवन्ति सर्वेऽपि । तस्माद् गुराधनपरेण हितकाक्षिणा भाव्यम् ॥ १॥" इति द्वितीय कौशलम २ । तथा 'उत्सपिवादयोः' जिनमतप्रतीतयोः विषयविभाग विशेषेण 'जानाति' अवगच्छति । अयमत्र भावार्थ:-नोत्सर्गमेव केवलमालम्बते, नाप्यपवादमेव प्रमाणीकरोति । किं तर्हि ? तयोरवसरं गुरूपदेशादवबुध्यते । उक्तं च-“उन्नयमवेक्व इयरस्स पसिद्धी उन्नयस्स इयराओ। इय अन्नोनपसिद्धा उस्सग्गववाय 'दा तुला ॥१॥ दबाइएहि जुत्तस्मस्सग्गो तदचियं अणद्राण । रहियस्स तमववाओ उचियंवियरस्सन उ तस्स ॥२॥ ज्ञात्वा च यथावसरमुचितविधिना यतिजनस्य पथ्यादिदाने प्रवर्तते । तद्यथा-"फासुयएसगिएहिं फासुयओहासिएहि. कीएहि । पूईपमिस्सिएण य आहाकम्मेण जयणाए ॥१॥" इत्यादि । युगपदक्तत्वात्कौशल्यद्वयस्योक्ताश्चत्वारो भेदाः ३।४। इति प्रथमगा
१ "मो तुल्ला" इति समापुस्तकेषु वर्तते परमम्यग्रन्थे “वो तुला" पति दर्शनावर्थसंगत्या च मूले स एव पाठ आरतः॥