________________
धर्मरa
प्रकरणम्
॥ ३६ ॥
प्रकाशनं पृष्टोऽपृष्टो वा करोतीति तृतीयमृजुव्यवहारस्वरूपम् । तत्र धर्मोपायो दानशीलतपोभावनारूपः । अर्थोपायो नीतिचारितोद्धारकाव्यवहरणादिरूपः । कामोपायः पुनरनर्थफलत्वान्न प्रकाशयत्येव । मोक्षस्तु फलभृत इत्येतदपि पाठान्तरं मार्गानुपातित्वात्सङ्गतमेवेति । तथा मित्रस्य भावः कर्म वा मैत्री, तस्या भावो भवनं सत्ता सद्भावानिष्कपटतया कृत्रिममैत्री न करोतीति भावः । कपटमैत्र्योः छायातपयोरिव विरोधात् । उक्तं च- " शाठयेन मित्रं कलुषेण धर्म परोपतापेन समृद्धिभावम् । सुखेन विद्यां परुषेण नारीं वाञ्छन्ति ये व्यक्तमपण्डितास्ते || १ ||" इति चतुर्थमृजुव्यवहारस्वरूपम् ॥ ४७ ॥
अस्यैव विपर्यये दोषदर्शनपूर्वकं विधेयतामाह
अन्नभणणाई अबोहित्रीयं परस्स नियमेण । तत्तो भवपरिवुड्डी ता होजा उज्जुववहारी ॥ ४८ ॥
अन्यथाभणनमयथार्थ जल्पनम्, आदिशब्दाद्वञ्चक क्रियादोपोपेक्षणासद्भावमैत्री परिग्रहस्तेषु सत्सु श्रावकस्येति भावः । अबोधेर्धमासेर्बीजं मूलकारणं 'परस्य' मिथ्यादृष्टेः 'नियमेन' निश्वयेन भवतीति शेषः । तथा हि- श्रावकमेतेषु प्रवर्त्तमानमालोक्य वक्तारः संभवन्ति - "धिगस्तु जैनं शासनं, यत्र श्रावकस्य शिष्टजन निन्दितेऽलीकभाषणादौ कुकर्मणि निवृत्तिर्नोपदिश्यते" इति निन्दाकरणादमी प्राणिनो जन्मशतेष्वपि बोधिं न प्राप्नुवन्तीति 'अबोधिवीजं' इदमुच्यते, 'ततः' चाबोधिवीजाद् 'भवपरिवृद्धिः भवति, तनिन्दाकारिणं तन्निमित्तभूतस्य श्रावकस्यापि । यतोवाचि - "यः शासनस्थोपघातेनाभोगेनापि वर्त्तते । स तन्मिथ्यात्वहेतुत्वादन्येषां प्राणिनामिति ।। १ ।। बध्नात्यपि तदेवालं परं संसारकारणम् । विपाकदारुणं घोरं सर्वानर्थविवर्द्धनम् || २ ||” 'ततः तस्मात्कारणाद 'भूयात्' भवेत् 'ऋजुव्यवहारी' प्रगुणव्यवहारवान् प्रकृतो भावश्रावक इति ॥ ४८ ॥
स्वोपज्ञवृत्तियुक्तम्
॥ ३६ ॥