________________
धर्मरत्रप्रकरणम्
स्वोपज्ञवृत्तियुक्तम्
॥ ३४ ॥
| 'उद्यच्छति' प्रयतते । तत्र तपोनशनादि द्वादशधा । तदुक्तम्-"अनशनमूनोदरता वृत्तेः संक्षेपणं रसत्यागः । कायक्लेशः संलीनतेति बाह्यं तपः पोढा ॥१॥ प्रायश्चित्तध्याने वैयावृत्त्यविनयावथोत्सर्गः। स्वाध्याय इति तपः षट्प्रकारमाभ्यन्तरं भवति ॥२॥" नियमा यतिविश्रामणोत्तरपारणककृतलोचसाधुघृतदानादिविषयाः । उक्तं च-"पहसंतगिलाणस्स य आगमगहणे य लोयकडसाहू । उत्तरपारणगम्मि य दाणं 'सुबहुप्फलं होइ ॥१॥" वन्दना चैत्यगुरुविषया, आदिशब्दात्पूजनादिपरिग्रहः, तेषां करणे नित्यमुद्यच्छति गुणद्वयस्य भावने । इत्याद्यगाथार्थः ॥ ४४ ॥ तथा अभिमुखमुत्थानमभ्युत्थानं, तदादिर्यस्य सोऽभ्युत्थानादिः, आदिशब्दः स्वागतानेकभेदसंग्रहार्थः । ते च विनयसमाध्यध्ययनादवगन्तव्याः । तमित्थंभूतं विनयं 'नियमात्' निश्चयेन 'प्रयुक्त विदधाति 'गुणिनां' आचार्यादीनां, विनयमूलत्वाद्गणपरंपरायाः। आह च-"विनयफलं शुश्रषा गुरुशुश्रूषाफलं श्रुतज्ञानम् । ज्ञानस्य फलं विरतिविरतिफलं चाश्रवनिरोधः ॥ १॥ संवरफलं तपोबलमथ तपसो निर्जराफलं दृष्टम् । तस्माक्रियानिवृत्तिः क्रियानिवृत्तेरयोगित्वम् ॥२॥ योगनिरोधाद्भवसन्ततिक्षयः सन्ततिक्षयान्मोक्षः । तस्मात्कल्याणानां सर्वेषां भाजनं विनयः॥३॥” इति तृतीयगुणफलम् । 'अनभिनिवेशः' अभिनिवेशरहितो 'गीतार्थभाषितं श्रुताधिकोपदिष्टं 'नान्यथा' असद्भावरूपतया 'मुगति प्रतिपद्यते, मोहोद्रेकाभावेन कदाग्रहाभावात् । उक्तं च-"न 'मोहोद्रेकताभावे स्वाग्रहों जायते क्वचित् । गुणवत्यारतन्त्र्यं हि तदनुत्कर्षसाधनम् ॥ १॥" इति चतुर्थगुणदंपर्यम् । इति द्वितीयगाथार्थः ॥ ४५ ॥ तथा श्रवणमाकर्णनं, करणमनुष्ठानं, तयोः 'इच्छा' तीव्राभिलाषो भवति रुचिः 'श्रद्धानसंयुक्ता' प्रतीतिसंगतेति पञ्चमो गुणः । अस्या एव प्राधान्यख्यापनायाह-'अनया' द्विस्वरूपया रुच्या 'बिना' अभावेन
१ 'तु बहुप्फलं" इत्यपि । २ "-यमन्तव्याः" इत्यपि । ३ "मोहोद्रिक्तता" इत्यपि ॥
॥ ३४॥