________________
सर्वप्रयोजनेष्वहिकामुष्मिकेषु, न विद्यतेऽभिनिवेशः कदाग्रहो यस्य सः 'अनभिनिवेशः प्रज्ञापनीयो भवतीति चतुर्थों गुणः ४ । तथा 'वहति धारयति 'रुचि' इच्छां श्रद्धानं वा 'सुटु' बादं 'जिनवचने' पारगतगदिते ५ । इति गाथार्थः ।। ४३॥ ___इत्थं गणनयोपदये गुणान् भावार्धकथनतः प्रदर्शयन्नाह| पढणाईसज्झायं वेरग्गनिबंधणं कुणइ विहिणा । तवनियमवंदणाईकरणंमि य निच्चमुज्जमइ ॥ ४४ ॥ |
अब्भुट्टाणाईयं विणयं नियमा पउंजइ गुणीणं । अणभिनिवेसो गोयत्थभासियं नन्नहा मुणइ ॥ ४५ ॥ | सवणकरणेसु इच्छा होइ रुई सद्दहाणसंजुत्ता । एईए विणा कत्तो सुद्धी सम्मत्तरयणस्स ॥ ४६ ॥
पठनमपूर्वश्रुतग्रहणम् , आदिशब्दात् प्रच्छनापरावर्तनाऽनुप्रेक्षाधर्मकथा गृह्यन्ते, पञ्चप्रकारमपि स्वाध्यायं कराति । किविशिष्टम् ? 'वैराग्य निबन्धन' विरागताकारणम् , 'विधिना' विनयबहुमानप्रधानम् । तत्र पठनविनयः-"पर्यस्तिकामवष्टम्भं तथा पादप्रसारणम् । विकथां प्रबलं हास्यं वर्जयेद्गुरुसन्निधौ ॥१॥" पठन्निति भावः। पृच्छाविनयः-"आसणगओन पुच्छेजा नेव सेजागोवि य। आगम्मउक्कडिओ संतो पुच्छेजा पंजलिपुडो॥१॥" परावर्त्तनविधिरयम्-"फासुयथंडिलइरियं पडिकतो अब गहियसामइओ। चेलंचलपिहियमुहो सपयच्छेयं गुणइ सड्ढो ॥१॥ अनुप्रेक्षा भावना तद्विधिः-"चारित्तसंपउत्तो सुकयसुयपरिग्गहो निराबाहं । भवविलया य पसत्थं भावेजा भावणाजालं ॥१॥" धर्मकथाविधिः-"सुद्धं धम्मुवएसं गुरुप्पसाएण सम्ममवबुद्धं । सपरोवयारजणगं जोगस्स कहेज धम्मत्थी ॥१॥" तपोनियमवन्दनादीनां करणे समाचरणे, चकारात्कारणानुमोदनयोश्च, 'नित्यं प्रतिदिनं