________________
श्रवणपथयुषो नीलपक्ष्माण एते यावल्लीलावतीनां न हृदि धृतिमृषो दृष्टिबाणाः पतन्ति ॥१॥" तथा 'सहई' इति शोभते 'प्रशान्तः' प्रशान्तवेषो 'धर्मी' इति धर्मवान् धार्मिकः श्रावको यति, अतः कारणात् 'उद्भटवेषः' सगान्धजघन्यजननेपथ्यो 'न सुन्दरो' नैव शोभाकारी 'तस्य' धार्मिकस्य स हि तेन सुतरामुपहासस्थानं स्यात् । 'नाकामी मण्डनप्रियः' इति लोकोक्तविशेषतो योपिद्विधवा च । भणितं च केनापि-“लन्होच्छी सद्दालं जुत्तं मायावित्तहं करइ न वुत्तउ । पसरह जाइवियालह आवइ एह नारि महु मणह न भावइ ॥१॥" तथा 'सविकारजल्पितानि सश्रृङ्गारभणितानि 'नूनं निश्चितं 'उदीरयन्ति' उद्दीपयन्ति रागाग्निम् । अत एवोक्तम्-"जं सुगमाणस्स कहं सुट्टयरं जलइ माणसे मयणो । समणेण सावएणविन सा कहा होइ कायच्वा ॥१॥" उपलक्षणं चैतत्-द्वेषानलमप्युदीरयन्ति कानिचित् । यदाह-"मम्म कम्म जम्मं तिनिवि एयाई मा हु पयडेज्जामा मम्मकम्मविद्धो मरेज्ज मारेज्ज वा कोई ॥१॥" तथा 'बालिशजनक्रीडाऽपि वर्णितस्वरूपा 'हुः अलङ्कारे। 'लिङ्गं चिह्न 'मोहस्य अज्ञानस्य 'अनर्थदण्डत्वात् निष्फलपापारम्भप्रवृत्तेः । तथा परुपवचनेन 'रे. दरिद्र ! दासीपुत्र !' इत्यादिनामियोग आज्ञादानं 'न सङ्गतो' नोचितः 'शुद्धधर्माणां' प्रतिपन्नजिनपतिमतानां धर्महानिः, धर्मलाघवहेतुत्वात् । तत्र धर्महानिः-"फरुसवयणेण दिणतवं अहिविखवंतोवि हणइ मासतवं । वरिसतवं सवमाणो हणइ हणतोऽवि सामन्नं ॥ १॥" इत्याद्याप्तवचनात् । धर्मलाघवं पुनरहो! महाधार्मिकाः, परपीडापरिहारिणः, सविवेकाश्च श्रावका यदेवं ज्वलदङ्गारोत्कराकारगिरो निगिरन्तीत्यादिलोकोपहासात् । तथा-"अप्रियमुक्ताः पुरुषाः प्रवदन्ते द्विगुणमप्रियं यस्मात् । तस्मान वान्यमप्रियमप्रियं वा श्रोतुकामने ॥१॥" तथा "विरज्यते परीवारो नित्यं कर्कशभाषिणः । परिग्रहे | विरक्ते च प्रभुत्वं हीयते नृणाम् ॥ १ ॥” इत्यायेहिकानर्थाश्च परुषभाषिणां संभवन्ति । सर्वथा न शोभते जैनानां कषायानलोद्दी