________________
धर्मरनप्रकरणम् ॥ ३१ ॥
स्वोपज्ञवृत्तियुक्तम्
____एतदेव शीलं गुणदोषोपदर्शनद्वारेण भावयन्नाहआययणसेवणाओ दोसा झिज्जति वडइ गुणोहो । परगिहगमणपि कलंकपंकमूलं सुसीलाणं ॥ ३९॥ सहइ पसंतो धम्मी उब्भडवेसो न सुंदरो तस्स। सवियारजंपियाई नूणमुईति रागगि ॥ ४० ॥ वालिसजणकोलावि हु लिंगं मोहस्सणत्थदंडाओ। फरुसवयणाभिओगो न संगओ सुद्धधम्माणं ॥४१॥
आयतनमक्तस्वरूप. तस्य सेवनादपासनात 'दोषाः' मिथ्यात्वादयो 'हीयन्ते' हानिमुपयान्ति । 'वर्धते' वृद्धिमुपैति 'गुणोघः' ज्ञानादिगुणकलापः। तथा हि-"सन्तप्तेऽयसि संस्थितस्य पयसो नामापि नो दृश्यते मुक्ताकारतया तदेव नलिनीपत्रस्थितं व्यज्यते । खातौ सागरशुक्तिमध्यपतितं तज्जायते मौक्तिकं प्रायेणाधममध्यमोत्तमगुणः संवासतो जायते ॥ १॥" 'परगृहगमनं' पूर्वोक्तं, अपिशब्द उपरि योक्ष्यते । 'कलङ्कपङ्कमूलं' अभ्याख्यानप्राप्तिहेतुः 'सुशीलानामपि साधनामपीति भावः। तथा ह्यागमे भिक्षार्थमपि | गतस्य साधोरुपवेशनं निषिद्धम् । यतोऽवाचि-"गोयरग्गपविट्ठस्स निस्सेज्जा जस्स कप्पइ । इमेरिसमणायारं आवज्जइ अबोहियं ।। १ विचत्ती बंभचेरस्स पाणाणं च वहे वहो । वणीमगपडिग्धाओ पडिकोहो अगारिणं ॥२॥ अगुत्ती वंभचेरस्स इथिओं वावि संकणा । कुसीलवडणं द्वाणं दूरओ परिवज्जए ॥ ३॥ श्रावकस्तु सुतरां शङ्कास्थानं स्यात् । अवश्येन्द्रियत्वाद् व्रतहानि चाप्नुयात् । उक्तं च-"सन्मार्गे तावदास्ते प्रभवति पुरुषस्तावदेवेन्द्रियाणां तावल्लज्जां विधत्ते विनयमपि समालम्बते तावदेव । भ्रूचापाकृष्टमुक्ताः
१ 'सन्तप्तायसि' इत्यपि ॥