________________
I
दधिशीताम्बुताम्बूलपुष्यपण्याङ्गनाजनैः । असारोऽप्येष संसारः सारवानिव लक्ष्यते || २ ||” तथा — "प्रियादर्शनमेवास्तु किमन्यैर्दर्शनान्तरैः । प्राप्यते यत्र निर्वाणं सरागेणा चेतसापि ॥ १ ॥” द्वेषोदयकारणानि -“ रे दासीसुय ! माईय माया ते छिंछई जण सिद्धा । खरफरुसवयणतविओ मरेज मारेज वा कोइ ॥ १ ॥ एसो चोरो जारो निही य लद्वो इमेण निम्तो । एसो रायविरोही मंसकरवाई इमो अहवा || २ || पाविट्ठा रायाणो दसवेससमत्ति जं सुई भणियं । रायगुरू सुरपाई दासीए पई गुरू कहणु || ३ || एमाईवयणाई फरुसाइ परस्स अप्पणो चैव । उवघायकुलक्षयकारणाई विगियाई सव्वाई ॥ ४ ॥” तथा धर्मविरुद्धान्यपि न ब्रूते भावभावकः । तद्यथा - "हत्यागया इमे कामा कालिया जे अणागया। को जाणइ परे लोए अस्थि वा नत्थि वा पुणो ॥ १ ॥ इति चतुर्थ शीलम् ४ ॥ ३७ ॥ तथा ‘पहिहरति' नासेवते 'बालक्रीडा' बालिशजनविनोदव्यापाराम् । उक्तं च- "चरंगसारिपट्टियबट्टाई लावयाइजुद्वाई । पम्होत्तरजमगाई पहेलियाईहिं नो रमह ॥ १ ॥” इति पञ्चमशीलम् ५ । तथा 'साधयति' निष्पादयति 'कार्याथि' प्रयोजनानि 'मधुरनीत्या' सामपूर्वकम् ॥ सौम्य ! सुन्दर ! एवं कुरु, एवं क्रियते, इत्थं कृतं सुकृतं स्यात् इति शिक्षादानेन परिजनं कर्मकरादिलोकं मधुरगिरा प्रवर्त्तयति । यतः - “प्रियवाक्यप्रदानेन सर्वे तुष्यन्ति जन्तवः । तस्मात्तदेव वक्तव्यं किं वचनेऽपि दरिद्रता || १ || अशिक्षितात्मवर्गेण ग्लानिं याति यतः प्रभुः । अतः शिक्षाः प्रदातव्या प्रत्यहं मृदुभाषया ॥ २ ॥” तथा “स्वाधीने माधुर्ये मधुराक्षरसंभवेषु वाक्येषु । किं नाम सत्त्ववन्तः पुरुषाः परुषाणि भाषन्ते || १ ||" अन्यैरप्युक्तम् – “क्षमी यत्कुरुते कार्य न तत्कोपवशं गतः । कार्यस्य साधनी प्रज्ञा सा चक्रुद्धस्य नश्यति ॥ १ ॥” इति मतान्तरे दुराराध्यताभिधानमेतत् पष्ठं शीलम् ६ । भावश्रावकस्य शीलान्तरव्युदासेन शीलवन्तमुपसंहरन्ति । इत्युपदर्शितपइविधशीलयुक्तो विज्ञेयः शीलवान्, 'अत्र' श्रावकविचारे । इति गाथाद्वयार्थः ||३८||