________________
धर्मरत्रप्रकरणम्
स्वोपज्ञवृत्तियुक्तम्
॥ ३०॥
"न भिल्लपलीषु न चौरसंश्रये न पार्वतीयेषु जनेषु संवसेत् । न हिंस्रदुष्टाशयलोकसन्निधौ कुसङ्गतिः साधुजनस्य निन्दिता ॥१॥" | तथा-"दसणनिब्भेयणिया चरित्तनिव्भेयणी य अणवरयं । जत्थ पयट्टइ विगहा तमणाययणं महापावं ॥१॥" प्रथमशीलम् १। तथा वर्जयति 'परगृहप्रवेशनं अन्येषां मन्दिरेषु गमनं 'अकार्ये कार्याभावे सति, नष्टविनष्टादावाशङ्कासंभवात् । एत्थ सामायारी"सावगो जइवि चियत्तंतेउरपरघरपवेसो बनिजइ तहावि तेण एगागिणा पुरिसरहिए परगिहे न पविसियब्वं । कजेवि परिणयवओ सहाओ घेतब्बो" इति द्वितीयं शीलम् २१ तथा 'नित्यं सदा 'अनुद्भटवेषः' अनुल्वणनेपथ्यो भवति भावश्रावको न पिड़गप्रायनेपथ्यः। तथा हि-"लंखस्स व परिहाणं गसइ व अंगं तहंगिया गाढा । सिरवेढो ढमरेणं वेसो एसो सिडंगाणं ॥१॥ सिहिणाण मग्गदेसो उग्घाडो नाहिमंडलं तह य । पासा य अद्धपिहिया कंचुयओ एस वेसाणं ॥२॥" इहवं तदाकूतम्-पुरुषाणां स्त्रीणां च नानादेशेषु नानारूपाणि नेपथ्यानि भवन्ति, ततो यद्यत्रानिन्दितं शिष्टाभीष्टं च, तच्छावकश्राविकाभिर्नेपथ्यं विधेयमिति । अन्ने भणंति"कुलदेसाण विरुद्धो वेसो रनोवि कुणइ नो सोहं । वणियाण विसेसेणं विसेसओ ताण इत्थीणं ॥१॥ संतलयं परिहाणं झलं व चोलाइयं च मज्झिमयं । सुसिलिट्ठमुत्तरीयं धम्म लच्छि जसं कुणइ ।। २।। परिहाणमणुन्भडचलणकोडिमजायमणुसरंतं तु परिहाणमकमंतो कंचयओ होइ सुसिलिट्ठो॥३॥" इत्यायेतदपि सङ्गतमेव, किं तु क्वचिदेव देशे कुले वा घटते । श्रावकास्तु नानादेशेषु कुलेषु च संभवन्ति, तस्माद्देशकुलाविरुद्धो वेपोऽनुद्भट इति व्याख्यानं व्यापकमिह सङ्गतम् । इति तृतीयं शीलम् ३ । तथा 'न भगति' न ब्रते सविकाराणि रागद्वपविकारोत्पत्तिहेतुभूतानि वचनानि, वाचस्तत्परीहास्यादिभिः परिवादशीलतया, मुखरतया वा । तत्र रागोत्पादकानि शृङ्गारसाराणि । यथा-"राज्ये सारं वसुधा वसुंधरायां पुरं पुरे सौधं । सौधे तल्पं तल्पे वराङ्गनेतीह सर्वस्वम् ॥१॥
॥३०॥