SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ स्येति द्वयोरपि गुरुशिष्ययोर्मषावादाभाव एव गुणलाभात् । शठाय पुनर्न देयान्येव गुरुणा व्रतानि । छद्मस्थतया पुनरलक्षितसाध्यस्य शठस्यापि दाने गुरोः शुद्धपरिणामत्वाददोष एव । न चैतत् स्वमनीषिकयोच्यते । यत आह-"संतम्मिवि परिणामे गुरुमूलपवजशूमि एस गुणो। दढया आणाकरणं कम्मक्खओवसमवुडी अ॥१॥ इय अहिए फलभावे न होइ उभयपलिमंथदोसोवि । तयभावम्मिवि दोहवि न मुसावाओवि गुणभावा ॥ २ ॥ तग्गहणओ च्चिय तो जायह कालेण असढभावस्स । इयरस्स न देयं चिय सुद्धो छलिओवि जइ असढो ॥३॥" कृतं विस्तरेण । अत्र पुनरपि कश्चिदाह-विस्तरभीरुमपि भदन्तं किंचित् प्रस्तावादायातं - च्छामि । संप्रति दुष्षमादोषागणवन्तो गुरखो नोपलभ्यन्ते, ततः स्थापनाचार्यसमीपे श्रावको व्रतं प्रतिपद्यत्तां वा मा वा ? गुरुराहसौम्य ! कथं नाम गुरवो नोपलभ्यन्ते ? दुरदेशवर्तित्वादत्यन्तासंभवाद्वा ? यदि दूरदेशवर्तित्वात्तदा तदर्थनस्तत्रैव गन्तुमुचितं धर्मार्थित्वस्यान्यथानुपपत्तेः । अथात्यन्तासंभवोऽनुपलम्भहेतुः । सोऽतितरामनुचितो वक्तुं सूत्रविरोधात् । उक्तं च-"न विणा तित्थं नियंठेहिं नातित्था य नियंठया । छक्कायसंजमो' जाव ताव अणुसजणं दोण्हं ॥१॥" द्वयोः सामायिकच्छेदोपस्थापनीययोकुशकुशीलयोर्वा । अथागमविरोधभयानो अत्यन्ताभावमभ्युपगच्छन्ति भवन्तः । कि तु सन्तोऽपि क्वापि वयं नोपलभामह इति भवतां मतमित्यपि महाधृष्टताविष्टोत्तरम् (?) यतः शतशः पञ्चमहाव्रतधारिणः, पञ्चसमितिप्रधानाः, त्रिगुप्तिपालनपराः, कालोचितयतनावन्तः, सततं सिद्धान्तामृतपानलालसाः, कुग्राहाग्रहविनिमुक्तमानसाः समुपलभ्यन्त एव महामुनयः । तत्कथं नोपलभ्यन्ते मध्यस्थधार्मिकैः ? इति सतोऽप्यनुपलम्भो महत् दृष्टेषणम् । सति च तस्मिन् किं व्रतग्रहणेन ? इति । तथा १ संजओ इत्यपि । २ ''अणुसजणा' इत्यपि । ३ दृष्टिदूषणे ॥
SR No.090134
Book TitleDharmaratnaprakaranam
Original Sutra AuthorShantisuri
Author
PublisherJain Granth Prakashak Sabha
Publication Year1953
Total Pages178
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Religion, & Principle
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy