________________
धमरव
स्वोपज्ञ-. वृत्तियुक्तम्
प्रकरणम्
॥ २८॥
भवन्ति-"पढमेगो तिनि तिया दो नवगा तिनि तह य दो नवगा । अउणापन्नं भंगा सन्चे ते हुंति नायव्वा ॥१॥" एवमनेकधा व्रतभङ्गान् जानाति । तथा भेदान् सूक्ष्मवादरसंकल्पजारम्भजसापराधनिरपराधादिरूपान जानाति । तथातिचारान् वधबन्धछविच्छेदादीन जानाति । व्रतानामनुव्रतादीनां सम्यक् सुविचारितान् विशेषेण जानातीति द्वितीयव्रतकर्म २ ॥ ३५ ॥
अथ तृतीयमाहगिण्हइ गुरूण मूले इत्तरमियरं व कालमह ताई। आसेवइ थिरभावो आयंकुवसंग्गसंगेवि ॥ ३६॥
'गृह्णाति' प्रतिपद्यते 'गुरूणां' आचार्यादीनां 'मूले समीपे । यतोऽभाणि-"उवउत्ता गुरुमूले संविग्गो इत्तरं व इयरं वा । अणुदिहयमणुसरंतो पालेइ विसुद्धपरिणामो ॥१॥" आह स श्रावको देशविरतिपरिणामे सति व्रतानि प्रतिपद्यतेऽसति वा? किं चातो यद्याद्यः पक्षः किं गुरुसमीपगमनेन ? साध्यस्य सिद्धत्वात् प्रतिपद्यापि व्रतानि देशविरतिपरिणाम एव साध्यः, स चास्य स्वत एव सिद्ध इति गुरोरप्येवं परिश्रमयोगान्तरायदोषपरिहारादिति । द्वितीयश्चेत् , तर्हि द्वयोरपि मृषावादप्रसङ्गात् परिणामाभावे पालनस्याप्यसंभवात् । तदेतत्सकलं परोपन्यस्तमचारु, उभयथापि गुणोपलब्धेः । तथा हि-सत्यपि देशविरतिपरिणामे गुरुसमीपप्रतिपत्तौ तन्माहात्म्यान्मया सद्गणस्य गुरोराज्ञाऽऽांधनीयेति प्रतिज्ञानिश्चयाद् व्रतेषु दृढता जायते, जिनाज्ञा चाराधिता भवतीति । उक्तं च"गुरुमक्खिओ हु धम्मो संपुन्नविहीकया इय विसेसो । तित्थयराणं आणा साहुसमीवंमि वोसिरओ॥१॥" गुरुदेशनाश्रवणोद्भूतकुशलतराध्यवसायात्कर्मणामधिकतरः क्षयोपशमः स्यात् । तस्माच्चाल्पं व्रतं प्रतिपित्सोरपि बहुतमव्रतप्रतिपत्तिरुपजायते । इत्यादयोऽनेके | गुणा गुरोरन्तिके व्रतानि गृह्णतः संभवन्ति । तथाऽसन्नपि विरतिभावो गुरूपदेशश्रवणानिश्चयसारपालनातो वाऽवश्यंभावी सरलहृदय
॥ २८ ॥