SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ धर्मरनप्रकरणम् स्वोपनवृत्तियुक्तम् ॥ २७॥ प्रतिसेवनं सम्यकपालनम सर्वेषामपि द्वन्द्वः, तेषु व्रतानामिति प्रक्रमात् गम्यते । 'उद्युक्त उद्यमवान् 'भावार्थः' ऐदंपर्यन्तस्य चतुर्विधस्याप्ययमासनमणिष्यमाणो 'भवति' इति व्यक्तम् । इति गाथार्थः ॥ ३४ ॥ भावार्थमेवाह-- विणयबहमाणसारं गीयत्थाओ करेइ वयसवणं । भंगयेभेयइयारे वयाण सम्म वियाणाइ ॥१५॥ - विनयोऽभ्युत्थानादिः । उक्तं च-"अब्भुट्ठाणंजलीकरणं तहेवासणदायणं । गुरुभत्तिभावसुस्मसा विणो सो वियाहिओ | ॥१॥" बहुमानो मानसः प्रीतिविशेषः। तदुक्तम्- "भावेण अणुदिन चिय एस गुरू पंडिओ महप्पा य । इय माणसपरिणामो बहमाणो माणणिज्जेसु ॥१॥ ताभ्यां सारं प्रशस्तं यथा भवत्येवं प्रतश्रवण करोमीति योगः । इह चत्वारो भङ्गाः कश्चि घृत्तॊ विनयसारं वन्दनादिदानतः श्रृणोति परिज्ञानार्थी, न पुनर्व्याख्यातरि बहुमानवान् भवति, कर्मगुरुत्वात् १ । अन्यस्तु बहुमानवान् भवति न विनयं प्रयुक्ते, शक्तिविकलत्वात् , स च ग्लानादिः २। अन्यस्तु प्रत्यासन्नकल्याणोद्वाभ्यां समेतः श्रृगोति३ । कश्चिद्गुरुतरकर्मा द्वितयमपि परिहरति श्रृणोति च, न च तस्मै गुरोरप्यागमानुसारिप्रवृत्तेः कथयितुं युक्तम् ४ । यत एवमागमः"चत्तारि अवायणिज्जा पन्नत्ता । तंजहा-अविणीए १, विगयपडिबद्धे २, अविओसियपाहुडे ३, पपलकोवमाई ४।" तहा"ओहेणवि उबएसो आएसेणं विभागसो देओ । नाणाइबुडिजणओ महुरगिराए विणीयस्स ॥१॥" जओ-"अविणीयमाणवेतो' किलिस्सई भासई सुसं तह य । घंटालोहं नाउं को कडकरणे पवत्तेजा ।।१।।" अतो विनयबहुमानसारं व्रतश्रवणं करोतीति प्रकृतम् । १ अन्यत्र "मालवतो' इत्यस्ति । ॥ २७॥
SR No.090134
Book TitleDharmaratnaprakaranam
Original Sutra AuthorShantisuri
Author
PublisherJain Granth Prakashak Sabha
Publication Year1953
Total Pages178
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Religion, & Principle
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy