________________
धर्मरत्रप्रकरणम्
स्वोपज्ञवृत्तियुक्तम्
+
॥ २६॥
पदार्थस्य यच्छावक इति नाम क्रियते । स्थापनाश्रावकश्चित्रपुस्तकर्मादिगतः । द्रव्यश्रावको शरीरभव्यशरीरव्यतिरिक्तो देवगुरुतस्वादिश्रद्धानविकलः, तथाविधजीविकाहेतोः श्रावकाकारधारकः । भावभावकस्तु-"श्रद्धालुतां श्राति शृणोति शासनं 'दान वपेदाशु पूणोति दर्शनम् । कुन्तत्यपुण्यानि करोति संयम ते श्रावकं माहुरमी विचक्षणाः॥१॥" इत्यादिश्रावकशब्दार्थधारी यथाविधिश्रावकोचितव्यापारपरायणो वक्ष्यमाणः, स चेहाधिकृतः । शेषत्रयस्य यथाकथंचिदेव भावादिति । नम्बागमेज्यथा श्रावकभेदाः श्रूयन्ते । यदाह स्थानाङ्गम्-"चउव्विहा सावगा पन्नता । तं जहा-अम्मापिइसमाणे १, भाइसमाणे २, मित्तसमापणे ३, सवत्तिसमाणे ४ । अहवा चउबिहा सावगा पत्रसा । तं जहा-आयससमाणे १, पडागसमाणे २, खाणुसमाणे ३, खरंटसमाणे ४ । एते च साधूनाश्रित्य द्रष्टव्याः। ते चामीषां चतुर्णी मध्ये कस्मित्रवतरन्ति ? इति उच्यते,-व्यवहारनयमतेन भावश्रावका एवैते, तथाव्यवहियमाणत्वात् । निश्चयतस्तु खरण्टसपत्नीसमानौ मिथ्याष्टिमायौ द्रव्यश्रावको। शेषास्तु भाषश्रावकाः । तथा हि तेषां स्वरूपमेवमागमे व्याख्यायते---"चिंतड़ जइकाई न दिट्ठखलिओवि होह निहो । एगंतवच्छलो जइजणस्स जणणीसमोसदी ॥१॥ हियए ससिणेहो चिय मुणीण मंदावरो विणयकम्मे । भाइसमो साहूणं पराभवे होइ सुसहाओ॥ २ ॥ मित्तसमाणो माणा ईसिं रूसइ अपुच्छिओ कज्जे । मन्नतो अप्पाणं मुणीण अयणाउ अमहियं ॥ ३ ।। थद्धी छिद्दप्पेही पमायरखलियाणि निश्चमुच्चरइ । सट्टो सवत्तिकप्पो साहुजणं तणसमं गणइ ॥४॥" तथा द्वितीयचतुष्के--"गुरुभणिओ सुसत्यो विधिज्जइ अवितहो मणे जस्स । सो आयससमाणो सुसावओ बनिओ समए॥१॥ पत्रोण पढागा इव भामिज्जइ जो जणेण मुढेण । अविणिच्छियगुरुवयणो सो
१ अन्यत्र “धनम्" इति । २ 'समणोवासगा' इत्यपि ॥
+ERAL
॥२६॥