________________
सूत्रैर्थत एवंविधाः श्रावकधर्माधिकारिण उक्ताः । तथा यतिधर्माधिकारिणोऽप्यन्यत्रान्यथैवोक्ताः । तद्यथा-"पव्यजाए अरिहा आरियदेसंमि जे समुप्पन्ना । जाइकुले हि विसिट्ठा तह खीणप्पायकम्ममला ॥१॥ तत्तोय विमलबुद्धी दुलहं मणुयत्तणं भवसमुद्दे । जम्मो मरणनिमित्तं चवलाओ संपयाओ अ॥२॥ विसया य दुक्खहेऊं संजोगे नियमओ विओगोत्ति । पइसमयमेव मरणं 'एत्थ विवागो य अइरोहो ॥३॥ एवं पयईए चिय अवगयसंसारनिग्गुणसहावा । तत्तो य तस्विरत्ता पयणुकसायऽप्पहासा य ॥ ४ ॥ सुकयन्नुया विणीया रायाईणमविरुद्धकारी य । कल्लाणंगा सद्धा थिरा तहा समुवसंपन्ना ॥ ५॥" तदेभिरेकविंशतिभिर्गुणः कतमस्य धर्मस्याधिकारित्वमुक्तम् ? इत्यत्रोच्यते-एतानि सर्वाण्यपि शास्त्रान्तरीयाणि लक्षणानि प्रायेण तत्तद्गुणस्थानकस्याङ्गभूतानि वर्त्तन्ते, चित्रस्य वर्णकशुद्धिविचित्रवर्णतारेखाशुद्धिनानाभावप्रतीतवत् । प्रकृतगुणाः पुनः सर्वधर्मस्थानानां साधारणभूमिकेव चित्रप्रकाराणामिति सूक्ष्मबुद्धथा परिभावनीयम् । वक्ष्यति च-"दुबिहंपि धम्मरयणं तरइ नरो घेत्तुमविगलं सो उ । जस्सेगवीसगुणरयणसंपया सुत्थिया अत्थि ॥१॥" अत एवाहसइ एयंमि गुणोहे संजायइ भावसावयत्तंपि । तस्स पुण लक्खणाई एयाइं भणंति सुहगुरुणो॥३२॥
'सति विद्यमाने 'एतस्मिन' अन्तरोक्त 'गुणौघे'. जघन्यमध्यमोत्कृष्टरूपे 'संजायते' संभवति 'भावश्रावकत्वमपि दुरे तावद्भावयतित्वमित्यपेरर्थः । आह-किमन्यदपि श्रावकत्वमस्ति ? येनैवमुच्यते भावभावकत्वमिति । सत्यम् , इह जिनागमे सर्वेऽपि भावाश्चतुर्विधा एव, 'नामस्थापनाद्रव्यभावतस्तन्न्यासः' (त. १।५।) इति वचनात् । तथा हि-नामश्रावकः सचेतनाचेतनस्य
१ 'अइविवागो हवद रुद्दों इत्यपि । २ "सर्वधर्माणाम्" इत्यपि ।।