________________
प्रत्येकमभिसंबन्धात् । पादप्रमाणैरर्द्धप्रमाणैश्च गुणैर्ये हीनाः, 'एतेषाम्' उक्तगुणानां मध्यात्ते यथाक्रमं मध्यमा वरा ज्ञेयाः । चतुर्थांशहीना मध्यमाः, अर्द्धन हीना जघन्या इति भावः । तेभ्योऽपि हीनतरेषु का वार्त्ता ? इत्याह- 'एतो परेण' इति एभ्योऽपि परेणार्द्धादिप्यधिकैः 'हीनाः' रहिताः 'दरिद्रप्रायाः' अकिंचनजनकल्पाः 'मुणितव्याः' वेदितव्याः । यथा दरिद्रा उदरभरणचिन्ताव्याकुलतया न रत्नक्रयमनोरथमपि कुर्वन्ति, तथैतेऽपि न धर्माभिलाषमपि विदधति । इति गाथार्थः ।। ३० ।।
एवं च स्थिते यद्विधेयं तदाह
धरणत्थिणा तो पढमं एयज्जणंमि जइयव्वं । जं सुद्धभूमिगाए रेहइ चित्तं पवित्तंपि ॥ ३१ ॥
धर्मरत्नमुक्तस्वरूपं, तदर्थिना तल्लिप्सुना, 'ततः' तस्मात्कारणात् 'प्रथमं' आदौ एषां गुणानां अर्जने विढपने 'यतितव्यं' तदुपाजनं प्रति यत्रो विधेयः, तदविनाभावित्वाद्धर्ममाप्तेः । अत्रैव हेतुमाह - 'यस्मात् कारणात् 'शुद्धभूमिकायां' अकलङ्काधारे 'रेह' इति शोभते 'चित्र' चित्रकर्म 'पवित्रमपि प्रशस्तमपि लिखितं सत् । इति गाथार्थः ॥ ३१ ॥
इहाप्यबुधजनविबोधनायागमप्रसिद्धमुदाहरणं वर्णयन्त्याचार्याः
सागेयपुरे महाबलो नाम राया यमापुच्छछ - किं मम रायंतरभावि रायलीलोचियं वत्थु नत्थि ? दुएण भणियं सव्वमत्थि देवस्स एगं चित्तसहं मोतुं । तीएवि किर नयणमणोहारिविचित्तचित्तावलोयणेण रायाणो चंक्रमणलीलमायरंति । एयमाय निऊण रन्ना संजायकोउगेण समाइट्ठो मंती । तेण य कारिया तुरियमेव दीहरविसाला महासहा । समाहूया नयरपहाणा विमलपहासना माणो दुबे य चित्तरा । समप्पिया तेसिमद्धद्धभाएण अंतरा चिलिमिलं दाऊण भणिया य-न तुमेहिं अन्नोन्नं कम्मं अवलोयणीयं,