SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ धर्मरनप्रकरणम् स्वोपनवृत्तियुक्तम् ॥२४॥ दीक्षाऽपि । गुरुराह-यद्येवमापृच्छेता राजस्वजनवौं । तेनोचे-न मम राजादिभिः कार्यम् , मातृमनोरथसंपादनमेव चिकीर्षामीति निवेदितजननीजल्पोऽनल्पमतिविभवः संग्रहीतुमुचितोऽयमिति परिभाव्य प्रवाजितोसौ सरिणा । स्वजनादिभयाच विहुताः सर्वेऽप्यन्यत्र । कथानकशेषमावश्यकादवगच्छेत् ॥ __इह पुनदृष्टमात्रानुष्ठानग्राही लन्धलक्ष्यो रक्षितवद्धर्माधिकारी स्यादित्यादिप्तम् । इति गाथार्थः ॥ २८ ॥ अथ प्रस्तुतोपसंहारद्वारेण प्रकरणार्थनिगमनायाह| एए इगवीसगुणा सुयाणुसारेण किंचि वक्खाया। अरिहंते धम्मरयणं घेत्तुं एएहि संपन्ना ॥ २९ ॥ _ 'एते' पूर्वोक्तस्वरूपाः, एकविंशतिसंख्यागुणाः श्रुतानुसारेण प्रकरणान्तरोपलभद्वारेण 'किञ्चित् असामस्त्येन, तेषां प्रकरणान्तरेषु विचित्रव्याख्यांश्रवणात्सामस्त्येन कथयितुमशक्यत्वात् 'व्याख्याताः' स्वरूपतः फलतश्च प्ररूपिताः । किमर्थम् ? इत्याहयतः 'अर्हन्ति' योग्यतासारं धर्मरनं ग्रहीतुं न पुनर्वसन्तनृपवद्राजलीलामिति भावः । कः? इत्याह-एभिः' अनन्तरोक्तैर्गुणैः 'संपमा' संगताः संपूर्णा वा । इति गाथार्थः ॥ २९ ॥ आह किमेकान्तेनैतात्वगुणसंपन्ना एव धर्माधिकारिणः, उतापवादोऽप्यस्ति ? इत्युच्यतेपायद्धगुणविहीणा एएसि मज्झमा वरा नेया । एत्तो परेण होणा दरिदपाया मुणेयव्वा ॥३०॥ इहाधिकारिणत्रिधा विचिंत्या उत्तममध्यमजघन्यभावेन । तत्रोत्तमाः संपूर्णगुणा एव । पादश्चतुर्थीशोऽदै प्रतीतमेव । गुणशब्दस्य ॥ २४॥
SR No.090134
Book TitleDharmaratnaprakaranam
Original Sutra AuthorShantisuri
Author
PublisherJain Granth Prakashak Sabha
Publication Year1953
Total Pages178
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Religion, & Principle
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy