________________
प्रमोदयसि । ततः किमन्यजनेनानन्दितेन, यञ्जनः मैं रोचते तदेवाध्येतुमुचितमित्यवधार्य मातरमपृच्छत् क्व पुनरम्ब ! दृष्टिवादः संपद्यते ? । तयोचे, पुत्र ! तवैवेक्षुयन्त्रागारे तोशलिपुत्राचार्याणां पार्श्वे लभ्यते । यद्येवं तुष्यतुतरामम्बा, प्रातरेव पूरयामि मनोरथान्, इत्यभिधाय दृष्टिवादपदस्यार्थमनुस्मरन्नतिक्रान्तप्रायायां रजन्यां जननीमापृच्छध प्रस्थितोऽसौ सूरीन् प्रति । प्रणतश्चान्तरा पूर्वदिवसाप्राप्तेनेक्षुयष्टिकलापसमर्पणपूर्वकस्वमित्रेण । प्रधानशकुनोऽयमित्यानन्दितेन गणिता इक्षुयष्टयः । नवपरिपूर्णा दशम्याचार्द्धमालोक्य चिन्तितमनेन - तत्र दृष्टिवादे कियन्तोऽप्यधिकारा न ज्ञायते, मया नव पूर्णा अध्येतव्याः, दशमश्चार्द्धमिति संचिन्त्य मातुर्धृतिसंपादनाय भणितो वयस्यः - एता मम मातुः समर्पणीया वक्तव्यं च यत्र प्रयोजने तव पुत्रः प्रस्थितस्तत्राहमेव प्रथममभिमुखोऽभ वमिति । गत्वा च कथिते तेन मात्राऽपि तदेव फलमबोधि । रक्षितोऽपि प्राप्तः साधूपायसमीपमज्ञाततद्वन्दनादिव्यवहारो ग्राम्य इव कथं प्रविशामि ? इत्यालोचयन् श्रावकमेकं प्रविशन्तं ददर्श, प्रविष्टश्च तदनुमार्गेण । नैषिधिकीर्याप्रतिक्रमणवन्दनप्रत्याख्यानसाधुवन्दनादि सर्वमक्षुष्णं तेन सह विधायोपविष्टो गुरुसमीपे । ज्येष्ठश्रावकावन्दनाल्लक्षितो गुरुभिरभिनवश्रावकोऽयमितिष्पृष्टश्च - देवानुप्रिय । कुतस्ते धर्मप्राप्तिरभृत् ? । रक्षितः प्राह तो वृद्धश्रावकात् । कदा ? संप्रत्येव । अत्रान्तरे साधुमिरूचे - भगवन्! शय्यातरीसुतोऽयं रक्षितकुमारः यस्यातीतवासरे राज्ञा प्रवेशोत्सवो व्यधीयत । ततोऽहो ! लब्धलक्षितास्येति विस्मितः स्निग्धमधुरया दृशा विलोक्य भणितोऽसौ सूरिभिः- सौम्य ! सर्वजनवल्लभस्य भवतः किमस्माभिरातिथ्यं विधीयताम् ? । ततः प्राञ्जलिपुटः प्रत्याह बटुः - भगवन् ! वादानेन प्रसादः क्रियताम् । सरिराह- साधु साधु शोभनो मनोरथो भवतो योग्यवासि बाढं दृष्टिवादस्य । किं तु नासौ गृहस्थेभ्यो वितीर्यते । यतयोऽप्यधीताद्यैकादशाङ्गास्तत्पाठाधिकारिणो भवन्ति । स ग्राह-यथा चारु भवति तथैव पठामि, प्रदीयतां
* * * *