________________
धर्मरनप्रकरणम्
।। २३ ।।
ओ अर्दितव किंचर्ण ॥ १ ॥ " एवं सोऊण पडिबुद्धो पव्वइओ विजओ । जाओ सपरोवयारसाहगोति । एवं परहियत्थकारी धम्मारिहोत्ति ॥
इदानीमेकविंशतितमो लब्धलक्ष्यगुणः फलतोऽभिधीयते
लक्खेइ लद्धलक्खो सुहेण सयलंपि धम्मकरणिज्जं । दक्खो सुसासणिजो तुरियं च सुसिक्खिओ होई ॥२८॥
'लक्षयति' जानाति प्रतनुज्ञानावरणत्वाल्लब्धमिव लब्धं लक्ष्यं शिक्षणीयानुष्ठानं येन स ' लब्धलक्ष्यः' 'सुखेन' अक्लेशेनात्मनः शिक्षयितुश्च निर्वेदमनुत्पादयन्नित्यर्थः । 'सकलं' समस्तमपि 'धर्मकरणीयं' वन्दनप्रत्युपेक्षणादिकम् । अयमभिप्रायः -- पूर्वभवाभ्यस्तमिव सकलं झटित्येवाऽधिगच्छति । तथा चाह --- "प्रतिजन्म यदभ्यस्तं जीवैः कर्म शुभाशुभम् । तेनैवाभ्यासयोगेन तदेवाभ्यस्यते सुखम् ॥ १ ॥ " अत एव 'दक्षो' द्राकारी 'सुशासनीयः' सुखशिक्षणीयः 'स्वरित' स्तोककालेन चकारस्थोपरियोगात् 'सुशिक्षितः' शिक्षापारगामी च ( 'भवति' ) स्मात् । आर्यरक्षितवत् -
स हि दशपुरनगरे सोमदेवद्विजन्मनो रुद्रसोमायाश्च पुत्रः । कुतोऽपि पाटलिपुत्रादेश्वतुर्दशविद्यास्थानपारगो भूत्वा स्वं पुरमाजगाम । कृतामिगमो राज्ञा नागरकैश्च स्वगृहं चाविशत् । स्थितो बहिः शालायाम् सर्वस्वजनैरभिनन्दितो, न तु मात्रा । ततश्चोत्कण्ठिती मातुरभिवन्दनाय गृहान्तरविशत् । कृतवान् मातुः पादवन्दनम् । तयाऽपि दत्ताशिषा संभाषितो मध्यस्थष्टभ्या नात्युत्कटप्रमोदया । ततोऽसौ विज्ञाततदातस्तां पप्रच्छ-मातः ! मदागमनेन जनः परजनोऽपि परं प्रमोदमाससाद, न पुनर्भवती, किमत्र कारणम् ? । सावोचत् पुत्र ! कथमिव मम प्रमोदो भवति ? दुर्गतिगमननिबन्धनानि कुशास्त्राणि पठित्वाऽऽगते । यदि परं दृष्टिवादमधीत्य मां
स्वोपज्ञवृत्तियुक्तम्
॥ २३ ॥