________________
नियच्छंतो पविम्हिओ । नूणमेस सबुत्तमो जो एवं नरिंदार्विददाणविदेहि दिजइ ता अलमन्नेहिं । एयस्स चेव विणयं करेमि । वओ अवसरं पाविऊण खग्गखेडगकरो चलणेसु निवडिऊण विनविउं पवत्तो भयवं ! अणुजाणह, अहं भे ओलग्गामि । भगवया भणियं-भद्द ! नाहं खग्गफलगहत्थेहि ओलग्गिजामि, किं तु रओहरणमुहपोत्तियापाणीहिं, जहा एए अन्ने ओलग्गति । तेण भणियं -जहा तुब्भे आणवेह तहेवोलग्गामि । तओ जोगोत्ति भगवया पन्चाविओ, सुगई च पाविओत्ति । एवं विणीओ धम्मारिहो होइत्ति ॥
अथैकोनविंशस्य कृतज्ञतागुणस्याबसरस्तत्र परेण कृतमुपकारमविस्मृत्या जानातीति कृतज्ञः प्रतीत एव । अतस्तं फलद्वारेणाहबहु मन्नइ धम्मगुरुं परमुवयारित्ति तत्तबुद्धिए । तत्तो गुणाण वुडो गुणारिहो तेणिह कयन्नू ॥ २६ ॥
'बहु मन्यते सगौरवं पश्यति 'धर्मगुरूं' धर्मदातारमाचार्यादिकम, 'परमोपकारी' ममायम् , उद्धृतोऽहमनेनाकारणवत्सलेन भगवताऽतिघोरसंसारकूपकुहरे निपतन् , 'इति' एवंमकारतया 'तत्वबुद्धया' परमार्थसारमत्या स हि भावयत्येवमागमवाक्यम्"तिहं दुष्पडियारं समणाउसो । तं जहा-अम्माप्पिउणं भद्विस्स धम्मारियस्स ।" इत्यादि । 'ततः तस्मात् कृतज्ञताभावजनितगुरुबहुमानाद् ‘गुणानां क्षान्त्यादीनां ज्ञानादीनां वा 'वृद्धिः भवतीति गम्यते । तथा हि-स गुरोरुपकारितां परिभावयनिर्भत्सितो न कुप्यति, नापि मानमालम्बते, नापि विनयहानि विधत्ते, नापि वश्चनापरिणाममास्कम्दति । अत एव सुप्रसन्नाद्रोः सकाशात् ज्ञानादिगुणानामोति । क्रमेण गुरुपदमपि लभते । 'गुणाईः धर्मपतिपत्तियोग्यः । 'तेन' हेतुना 'इह' धर्माधिकारिविचारे 'कृतज्ञः' उक्तस्वरूप इत्यत्र भीमो दृष्टान्तः ।।
स चायम्