________________
धर्मरन
प्रकरणम्
॥ १७ ॥
- " हा पुत्त ! हा पुस ! हा वच्छ! हा वच्छ ! मुकामि कहमणाहाहं । एवं कलुणपलाषा जलंतजलणेअ सा पडिया" ।। 'दर्शनभेदिनी' ज्ञानाद्यतिशयतः कुतीर्थिकप्रशंसादिरूपा । तद्यथा - "सूक्ष्मयुक्तिश्शतोपेतं, सूक्ष्मबुद्धिकरं परम् । सूक्ष्मार्थदर्शिभिर्दृष्टं, श्रोतव्यं बौद्धशासनम् ॥ १ ॥” इत्यादि । एवं हि श्रोतॄणां तदनुरागात् सम्यग्दर्शनभेदः स्यादिति । 'चारित्रभेदिनी' न संभवन्तीदानीं महाव्रतानि, प्रमादबहुलत्वादतिचारप्रचुरत्वादतिचारशोधकाचार्यतत्कारकस्वाधुसाध्वीनामभावात् । ज्ञानदर्शनाभ्यां तीर्थं प्रवर्त्तत इति ज्ञानदर्शनकृत्येष्वेवादरो विधेय इति । भणितं च "सोही न अस्थि नवि दिंतकरिता नवि य केइ दीसंति । तित्थं च नाणदंसणनिअवगा चेव वोच्छिन्ना ॥ ११ ॥ इत्यादि । अनया हि प्रतिपन्नचारित्रस्यापि तद्वैमुख्यमुपजायते, किं पुनस्तदभिमुखस्येति चारित्रभेदिनी । इत्येतासु सङ्गोऽत्यासक्तिः तेन कलुषितं मनोऽन्तःकरणं यस्य स तथा तस्येतीदमत्र तात्पर्यम् - विकथाप्रवृत्ती हि प्राणी प्रायो रागद्वेषवान् भवति, तद्वशाच्च न युक्तायुक्तं विवेचयति स्वार्थहानिमपि न लक्षयतीति । 'धर्मः' पुनः 'विवेकसार:' एव हिताहितावबोधप्रधान एव भवति, सावधारणत्वाद्वाक्यस्येति । धार्मिको ह्येवमालोचयति — " यावत्परगुणदोषपरिकीर्त्तने व्यावृत्तं मनो भवति । तावद्वरं विशुद्धे ध्याने व्यग्रं मनः कर्तुम् ॥ १ ॥" 'इति' अस्माद्धेतोः सत्यशोभना तीर्थकरगणधर महर्षिचरितगोचराः कथा वचनव्यापारा यस्य स 'सत्कथो' 'भूयात्' भवेत् 'धर्मार्थी' धर्मचरणाभिलाषुको येन धर्मरनार्हः स्यात् । इति गाथार्थः ॥ २० ॥
अथ सुपक्षयुक्तश्चतुर्दशगुणवानुच्यते
अणुकूल धम्मसीलो सुसमायारो य परियणो जस्स । एस सुपक्खो धम्मं निरंतरायं तरइ काउं ॥ २१ ॥ इह पक्षः परिग्रहः परिकर इत्यनर्थान्तरम् । 'पक्षः परिग्रहेऽप्युक्तः' इति वचनात् । शोभनः पक्षो यस्य समुपक्षः । तमेव विशे
स्वोपज्ञवृत्तियुक्तम्
।। १७ ।।