________________
मूलं धम्मस्स दया तयणुगयं सव्वमेवणुट्ठाणं । सिद्धं जिणिंदसमए मग्गिजइ तेणिह दयालू ॥१७ ।। । । 'मूल' आद्यकारणं 'धर्मस्य उक्तनिरुक्तस्य 'दया' प्राणिरक्षा । यतोऽस्या एव रक्षार्थ शेषव्रतानि । तथा चाऽवाचि-"अहिंसैषा मता मुख्या स्वर्गमोक्षप्रसाधिनी । अस्याः संरक्षणार्थ च न्याय्यं सत्यादिपालनम् ॥ १॥" तथा-"नर्ते मृदं यथा कुम्भो नर्ते बीजं यथाङ्करः । निर्मालिन्यस्तथा धर्मों नर्ने स्याजीवरक्षणम् ॥१॥" 'तदनुगत' तत्सहभावि 'सर्वमेव' विहाराहारतपोवैयावृत्त्यादिसदनुष्ठानं 'सिद' प्रतीतं 'जिनेन्द्रसमये' पारगतागमे । उक्तं च-"न सा दीक्षा न सा मिक्षा न तज्ज्ञानं न तत्तपः।न तद्दानं न तद्वयानं दया यत्र न विद्यते ॥१॥"'मृग्यते' अन्विष्यते 'तेन' कारणेन 'इह ' धर्माधिकारप्रस्तावे ' दयालुः' दयाशीलः । इदमत्र तात्पर्यम्-यः स्वत एव दयालुः स सुखेनेर्यासमितिप्रत्युपेक्षणादौ प्रवर्तते, अतो धर्मयोग्यो भवति धर्मरुचिवत् । श्रूयते चागमे-. ____ कचित् कुलपुत्रकः परलोकभीरुगृहवासमारम्भबहुलमवधार्य तापसानां मध्ये प्रव्रजितः । तानपि कन्दमूलोत्पाटनाद्यारम्भप्रवृत्तान- | वलोक्य सविषादो जज्ञे । यतस्तेऽपि किल चतुर्दश्यादितिथिष्वनाकुट्टिमाघोषयन्ति स्वकीयाश्रमे । ततो न कोऽपि तस्मिन् दिने पुष्पफलकन्दानयनाय वनं प्रति गच्छति । सोऽपि धर्मरुचिस्तदेकं दिन बहुमन्यमानोऽहो ! सुन्दरं भवति, यदि सर्वदेयमनाकुट्टिरुदघुष्यतेति चिन्तयनासाञ्चके । कदाचिदासम्ममार्गे साधू व्रजन्तावालोक्य भद्रकतया तावपृच्छन्-भो तपोधनौ! किमरण्यं प्रति प्रस्थिती युवाम् ? किं भवतां धर्मेऽद्यानाकुट्टिन विधीयते ? तमृजुशीलमालोक्य साधू प्रत्यूचतुः-तापसकुमार ! अस्माकं धर्मे सर्वदानाकुट्टि
१ "कुटय" इत्यपि ॥