________________
भो भो विभायह दुक्ख, गिण्हह थोवं थोवं, जेण मे सुहं भवइ । तेहिं भणियं-वच्छ ! सुट्ठ गिण्हामो जइ अम्हासु संकमइ, किं तु नत्थि उवाओ जेणमसतियं दुक्खममम्मि संकमइ । तो किं भणह तुह पावं विभइस्सामोत्ति तेण वुत्ता लद्धनिच्छिया छिया तुहिक्का सयणा । इयरोवि अभयकुमारेण भगवओ समीवे सावगधम्म गाहिओ । पालिऊण य तं विहिणा पाविओ देवलोगंति ॥१३॥ ____ अथ सप्तमगुणं स्वरूपतः फलतश्चाहअसढो परं न वंचह वीससणिज्जो पसंसणिज्जो य । उज्जमइ भावसारं उचिओ धम्मस्स तेणेसो ॥१४॥
शठो मायावी, तद्विपरीतः 'अशठः' 'परं' अन्यं 'न वञ्चति' नाभिसन्धत्ते । अत एव 'विश्वसनीयः' प्रत्यवस्थानं भवति । इतरः पुनरवश्चन्नपि न विश्वासकारणम् । यदुक्तम्-"मायाशीलः पुरुषो यद्यपि न करोति किश्चिदपराधम् । सर्प इवाविश्वास्यो भवति तथा ह्यात्मदोषहतः॥१॥" तथा 'प्रशंसनीयः' श्लाघनीयश्च स्यादशठः, इति प्रक्रमः । यतोऽवाचि-"यथा चित्तं तथा वाचो यथा वाचस्तथा क्रिया । धन्यास्ते त्रितये येषां विसंवादो न विद्यते ॥१॥" तथा 'उद्यच्छति' प्रयतते धर्मानुष्ठान इति गम्यते । 'भावसारं' सद्भावसुन्दरं, न पुनः पररञ्जनाय कूटक्षपकवत् । उक्तं च-"जोवि य पाडेऊणं मायामोसेहिं खाइमुद्धजणं । निग्गाममज्झवासी सो सोयइ कवडखमउव्व ॥१॥" 'उचितः' पात्रं 'धर्मस्य' उक्तान्वर्थस्य 'तेन' हेतुना 'एप' अशठः । स्वार्थप्रवृत्तित्वात्तथाविधश्रातिदुर्लभः' यतोऽवाचि-" भूयांसो भूरिलोकस्य चमत्कारकरा नराः। रञ्जयन्ति स्वचित्तं ये भृतले ते तु पञ्चषाः॥१॥" इति गाथार्थः॥१४॥
अथाष्टमगुणगणान् व्यावर्णयबाह