________________
धर्मरत्नप्रकरणम्
118 11
मिदं राज्ञाऽऽदिष्टमिति । भवतु वा किञ्चिन्नाहमेनं द्रुह्यामीत्येकान्ते गत्वा सुजातस्य लेखं दर्शयति स्म, अवादीच्च – यद्यप्येष राजादेशस्तथाऽपि नाहमेवं करोमि, किं तु त्वया मदनुकम्पया प्रच्छन्नमासितव्यमित्यभिधायि । परिणायितश्चन्द्रयशोभिधानां किञ्चिस्वग्दोषरोगभाजं निजभगिनीम् । सोऽपि संसारासारतां भावयंस्तथैव तस्थौ । साऽपि राजपुत्री तत्समीपप्रतिपन्नश्रावकधर्मा तेनैव रोगेणाभिभूता समाधिना विमुक्तकाया सुरलोकं जगाम । ततः सुजातं परमोपकारिणं प्रणिपत्यैवमवादीत्वद स्वामिन् ! किमि - दानीं भवतः संपादयामि ? सुजातः प्राह - यद्यपेतकलङ्कः पितरौ पश्यामि ततः प्रव्रजामीति मे मनोरथस्त्वमापूरयेति । ततो देवश्वम्पाया उपरि महतीं शिलामाधाय नभसि स्थितो राजानमुवाच — यद्भवता कुमन्त्रिलिखित कूटलेखविप्रलब्धेनाकृतापराधो धर्मपुरुष - शिरोमणिः सुजातो विनाशितस्तस्य दुर्नयस्य फलमिदानीमनुभूयताम् । एष नयाम्यद्यं भवन्तं सपुत्रकलत्रनगरनागरकं यममन्दिरमिति । ततो राजा पश्चात्तापानलदह्यमानमानसः स्वामिन्! मा मैवमकारुणिको भूः समादिश कालोचितमित्यभिधाय प्रणतिपूर्वं देवं प्रसादितवान् । सोऽवोचत् — इदानीमपि तं गुरुगौरवपूर्वकं यदि चम्पायां प्रवेशयसि ततोऽस्ति भवतां मोक्षो नान्यथेति । राजा प्रत्याह- महामसादो महाप्रसादः, व पुनरिदानीं स प्राप्यते ? देवेनोक्तम् — इहैवोद्याने मया नीतस्तिष्ठति । ततः प्रमोदभरनिर्भरेण राज्ञा महाविभूत्या प्रवेशितः । प्रमोदितौ पितरौ । जातो जनानां महानन्दः । प्रभावितो जिनधर्मः । सुजातोऽपि जातवैराग्यप्रकर्षो राजानमनुज्ञाप्य सह पितृभ्यामन्यैश्च भविकलोकैः प्रव्रजितः । सुगतिं स प्राप्तवान् ।।
एवं लोकप्रियो जनानां धर्मबहुमानं जनयति । अन्यैरप्युक्तम्
66
युक्तं जनप्रियत्वं शुद्धं तद्धर्मसिद्धिफलदमलम् । धर्मप्रशंसनादेर्बी जाधानादिभावेन ॥ १ ॥ " इति गाथार्थः ॥ ११ ॥
৬
स्वोपज्ञ
वृत्तियुक्तम्
॥ ९ ॥