SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ * मागताः । तां बाढमाक्रोशन्तीमेवमूचुः-स्वामिनि ! दृष्टमद्यास्माभिरपूर्व किञ्चिदाश्चर्य, तेन व्यामोहिताभिर्विस्मृतप्रयोजनामिन लक्षितो वेलातिक्रमः, अतः क्षमस्वैकमपराधमिति । ततश्च सविशेष पृच्छन्त्यास्तस्यास्ताभिः कथितम्-अस्तीह धनमित्रवेष्ठिसुतः सुजातः । तस्य ललितानि वचनानामगोचराणि विलोकितान्येव सुरखमुत्पादयन्ति । किंवा जीवितेन, यदि तस्य स्मितसुन्दरं वदनारविन्दं न चिलोक्यते । ततः सा प्रियङ्ग्रस्तदर्शनकुतूहलिनी स ममाभ्यर्णमार्गे गच्छन् दर्शनीय इति ताः किंकरीरादिदेश । दृष्ट्वा चान्यदा ते बाढमावर्जितहृदया शेषान्तःपुरिकाणां पुरतः कृतसुजातनेपथ्या नेत्रवत्रकरचरणादिक्रियामनुकतमारब्धा । दृष्टा च 'शनैरागतेन कटकव्यवहितेन मन्त्रिणा सुजात सुजातेत्यालापश्रवणाच्च विचिन्तितमनेन-अहो ! विनष्टमन्तःपुरम् । महाकृतिश्चायं सुजातो गृहमागतोऽवाप्यते । न चामाप्तस्य दण्डो विधीयमानः परिणतौ सुखयति, राजादिजनवल्लभत्वादस्य । इत्यादि पर्यालोच्य कूटलेख लिलेख । तद्वाहकं चाज्ञातपुरुष शिक्षयित्वा राजान्तिकं निनाय, राज्ञश्च लेख दर्शयांचकार । तत्र च किल लिखितमिदम्'भोः सुजात ! त्वयोक्तं दशरात्रमध्ये मित्रप्रभ बद्ध्वा तवार्पयिष्यामि तत्किमचापि प्रमाद्यसि ? किलानिवारितपचारो भवान् राजमन्दिरे' । इत्यादि लेखार्थमवधार्य राजा कुपितोऽपि न सुजाते संभवतीदमित्यभिधाय मन्त्रिणं विससर्ज चिन्तितवांश्च । यद्यप्ययमेवंविधस्तथाऽपि न प्रकटं दण्डयते । यतो न कोऽप्यस्यापराधं श्रद्धत्ते । विरज्यते च लोको मयीत्युपायान्तरमवधार्य राज्यकार्यचिन्तनव्याजेन देशपर्यन्तवर्तिनीमरक्षुरी नगरी सुजातं प्रेषयामास । तनायकस्य चन्द्रध्वजसामन्तस्य लेखं च ददौ । 'किलायं वणिक् प्रच्छन्नं व्यापादनीयः' इति । चन्द्रवजोऽपि सुजातरूपमालोक्य चिन्तितवान्-नैवंविधमूर्तिनानेन विरुद्धमासेव्यते । तत्कि १ 'सा तेन गृहागतेन' इत्यपि ॥ **45* 5 RSS
SR No.090134
Book TitleDharmaratnaprakaranam
Original Sutra AuthorShantisuri
Author
PublisherJain Granth Prakashak Sabha
Publication Year1953
Total Pages178
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Religion, & Principle
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy