SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ नगरे—भो भो लोकाः ! महापातकिना रुद्रकेणात्मना वत्सपालजननीं निपात्याङ्गर्षिमहर्षेरभ्याख्यानमदायि, ततो नासौ द्रष्टुमालापयितुं योग्यः । इत्यादि श्रुत्वा पश्चात्तापानलदन्दयमान उपाध्यायो नागरकलोकेन सहागत्य महर्षि मर्पयाञ्चकार, श्रुत्वा च धर्मं प्रतिबुद्धश्व । रुद्रकोsपि लोकेन निन्द्यमानोऽवाप्ततीवानुतापः परं संवेगमागत्य केवलश्रियमवापेति ॥ तदेवं प्रकृतिसौम्यः प्राणी प्रायेणात्मपरयोरुपकाराय संपद्यते, अतोऽङ्गर्षित्रद्धर्माधिकारी स्यादिति ॥ १० ॥ अथ चतुर्थ गुणमधिकृत्याह - इहपरलोयविरुद्धं न सेव दाणविणायसीलड्डो । लोअपिओ जणाणं जणेइ धम्मंमि बहुमाणं ॥११॥ इहलोकविरुद्धं परलोकविरुद्धं च न सेवते लोकप्रिय इति योगः । तत्रेहलोक विरुद्धं परनिन्दादि । यतोऽवाचि - "सव्वरस चेव निंदा विसेसओ तह य गुणसमिद्धाणं । उजुधम्मकरणहसणं रीढा जणपूयणिजाणं ।। १ ।। बहुजणविरुद्धसंगो देसादायारलंघणं तह य । उव्वणभोगो य तहा दाणाइविपयडमन्ने उ ।। २ ।। साहुवसणंमि तोसो सयसामत्थंमि अपडियारो य । एमाइयाणि एत्थं लोगविरुद्राणि नेयाणि || ३ |” परलोकविरुद्धं खरकर्मादि । तद्यथा - "खरकर्मित्वं राज्यं सीरपतित्वं च शुल्कपालत्वम् । विरतिं विनाऽपि सुकृती करोति नैवंप्रकारमयम् ॥ १ ॥।” उभयलोकविरुद्धं द्यूतादि । तथा हि- "द्यूतं च मांसं च सुरा च वेश्या पापर्द्धिचौर्ये परदारसेवा । एतानि सप्त व्यसनानि लोके पापाधिके पुंसि सदा भवन्ति ॥ १ ॥ इहैव निन्द्यते शिष्टैर्व्यसनासक्तमानसः । मृतस्तु दुर्गतिं याति गतत्राणो नराधमः ॥ २ ॥ " अयमभिप्रायः - एतानि कर्माणि लोकवैमुख्यकारणानि परिहरन्नेव शिष्टजनप्रियो भवति । धर्मस्यापि स एवाधिकारीति । तथा दानं त्यामो विनय उचितप्रतिपत्तिः, शीलं सदाचारपरता, एभिराढ्यः परिपूर्णो यः स लोकप्रियो भवति ।
SR No.090134
Book TitleDharmaratnaprakaranam
Original Sutra AuthorShantisuri
Author
PublisherJain Granth Prakashak Sabha
Publication Year1953
Total Pages178
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Religion, & Principle
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy