________________
धर्मरत्रप्रकरणम्
स्वोपज्ञवृत्तियुक्तम्
॥ ७॥
मनस्तापमापनस्तच्छिद्रालोकनव्याकुलमनास्तस्थौ । तावन्यदोपाध्यायेन प्रातरेवेन्धनानयनाय नियुक्तौ। ततोऽङ्गर्षिरुपाध्यायाज्ञां सब-10 हमानमादायारण्यमभ्यगात् । इतरस्तु दीर्घसूत्रितया द्यूतदेवकुलिकोत्प्रेक्षणेक्षणक्षणिकमना मध्यंदिनं यावत् स्थित्वा स्मृताध्यापकनिदेशश्चलितोष्टवी प्रति । ददर्श च गृहीतोरुदारुभारमायान्तमङ्गर्षिम् । ततो भीतभीतस्त्वरितं गच्छन्नेकत्र विजने नद्यवतारे पन्थकामिधानपुत्राय भक्तं दत्वा निवृत्तां, बृहत्काष्ठभारावनम्रविग्रहां ज्योतिर्यशोऽमिधानां वृद्धयोषितमालोक्य विस्मृतधर्मसंज्ञस्तां निहत्य गृहीततकाष्ठभारः प्रतिनिवृत्य द्रुततरगत्या मार्गान्तरेगोपाध्यायमुपसृत्योक्तवान्–उपाध्यायोपाध्याय ! शृणु वल्लभतरच्छात्रस्य चेष्टितम् । स हि त्वदाज्ञां तृणायाप्यमन्यमानः कचित् क्रीडाव्याकुलः स्थित्वा चिराह' यावत् संप्रत्येवाटवीमटिटीषुरन्तरा वराकी पन्थकवत्सपालमातरं दारुभाराकान्तामालोक्य कृकाटिकामोटनेन मारयित्वा च गृहीततत्काष्ठभार एष आगच्छति । प्राप्तश्चात्रान्तरेऽङ्गार्षिः। ततोऽतिकुपितेनोपाध्यायेन रे पाप ! तत्र गन्तव्यं यत्र मम दृष्टेरगोचर इत्यादिकठोरवचनमुच्चारयता निर्धाटितः स्वमन्दिरात् । स च प्रकृतिसौम्यतयाऽध्यापकं प्रत्यमत्सरी निर्गत्य नगरानातिदूरवृक्षच्छायोपविष्टश्चिन्तयामास । अहो! मृगाङ्कमण्डलादङ्गारवर्षणमिवासंभावनियमेतदजनि । यदयमुपाध्यायः प्रियंवदचूडामणिमी प्रत्येवं ज्वलज्ज्वलनज्वालायमाना वाचोमुचत् । ततो नूनं भवितव्यमत्र महता ममापराधेन, इत्यात्मानमालोचयति । न च किश्चिदात्मदुष्कृतमुपलेभे, तथाऽप्यहो ! धिग् मां गुरुजनोद्वेगकारिणमधन्यम् । धन्यास्ते ये सर्वसचानां प्रीतिमुत्पादयन्तीत्यादिविशुद्धविशुद्धतराध्यवसायहेतून् परिभावयन् समुत्पन्नजातिस्मरणः पूर्वभवाभ्यस्तभावनाभावनतः केवलज्ञानश्रियमाससाद सोऽङ्गार्षिर्महात्मेति । ततस्तन्माहात्म्यरञ्जितैः सन्निहितामरेविहितोऽस्य महामहिमा, महता शब्देन चोद्घष्टं
१ 'पराह्न' इत्यपि ॥