________________
1-15615
9619649616
दीपेणादीनामासीदेवेति न विरोधः । प्रायिकं चैतच्छेषगुणसद्भावे कुरूपत्वस्य गुणान्तराभावस्य चादुष्टत्वादत एव वक्ष्यति - " पायद्ध
वीणा मज्झिमा वरा नेया" इत्यादि । अतिशायि रूपं पुनर्यद्यपि तीर्थङ्करादीनामेव संभवति, तथापि येन प्राणी क्वचिदेशे काले वयसि वा वर्तमानो रूपधानयमिति प्रत्ययं जनानां जनयति तदेवेहाधिकृतं मन्तव्यम् । तदन्वितो हि धार्मिकः सदाचारप्रवृत्या भव्य जन्तूनां धर्मे गौरवमुत्पादयन् प्रभावयति धर्ममिति कृत्वा भवति प्रभावनाहेतुरित्युक्तम् । तथा ' क्षमः ' समर्थः, चकारो भवति क्रियानुकर्षणार्थः । तथाशब्दः समुच्चये । न केवलप्रभावबाहेतु:, क्षमथ भवति रूपवान् ' धर्मे ' धर्मविषये । सुसंहननत्वफलमिदम् । इति गाथार्थः ।। ९ ।। अत्रोदाहरणम्
विम्हावियसव्वजणा रुवागुणेहि चंदणा अजा । भेत्तूण कम्मगंठिं वीरस्स पवत्तिणी जाया ॥ १ ॥
सुप्रतीतं चैतदिति न लिख्यते ॥ अथ तृतीयं गुणमधिकृत्याह
पयईसोम सहावो न पावकम्मे पवत्तई पायं । हवइ सुहसेवणिजो पसमनिमित्तं परेसिपि ॥ १० ॥ 'प्रकृत्या' अकृत्रिमभावेन, 'सौम्यस्वभावः' अभीषणाकृ तिर्विश्वसनीयरूप इत्यर्थः । 'न' नैव, पापे कर्मण्याक्रोशत्रधादौ हिंसाचौर्यादौ वा 'प्रवर्त्तते' व्याप्रियते 'प्रायः' बाहुल्येनानिर्वाहादिकारणमृते । अत एव भवति 'सुखसेवनीयः' अक्लेशाराध्यः, 'प्रशमनिमित्तम्' उपशमकारणं च । अपिशब्दस्य समुच्चयार्थस्येह योगात् परेषाम्' अन्येषामनीदृशानामङ्गर्षिवदिति ॥ श्रूयते चागमे —,
किल चम्पायां पुरि कौशिकार्यनाम्न उपाध्यायस्याङ्गर्षिरुद्रकामिधानौ छात्रावभूताम् । तयोराद्यः सौम्यमूर्तिः, प्रियंवदः, सन्न्यायचारी, विनीतविनयो न कस्यापि वश्वको विशेषत उपाध्यायस्य । द्वितीयः पुनः विपरीतशीलस्तमुपाध्यायेन श्लाघ्यमानमसहमानो