________________
यथावस्थितवस्तुतत्वदर्शित्वात् ॥ ११॥ 'गुणरागी' गुणेषु बहुमानवान्, 'लघुकर्मत्वात् ॥१२॥ सत्कथः' न दश्वारिचर्याकर्णनक| थनरुचिः, सदाचारचारित्वात् ॥ १३॥ सुपक्षः शोभनपरिजनः तेन युक्तोऽन्वितो 'धर्माविरोधिबन्धुपरिवारः, इति भावः ॥१४॥ 'सुदीर्घदर्शी' सुपर्यालोचितपरिणामसुन्दरकार्यकारी, बुद्धिसंपन्नत्वात् ॥ १५॥ 'विशेषज्ञः' सारेतरादिवस्तुवेदी न रागद्वेषमूढत्वपूर्वव्युद्ग्राहितत्ववशात् प्रतिपन्नकुग्राहकतानमानस इति ॥१६॥ 'वृद्धानुगः' परिणतमतिपुरुषच्छन्दोऽनुवर्ती ॥१७॥ 'विनीत' गुरुजने गौरवकृत् ॥१८॥ 'कृतज्ञः' स्तोकमप्युपकारमै हिकं पारत्रिकं वा न विस्मरति ॥१९॥ तथा परेषामन्येषां हितानन् प्रयोजनानि कत्तुं शीलं यस्य स 'परहितार्थकारी प्रत्युपकारानपेक्ष इति भावः । सुदाक्षिण्यादस्य को विशेषः ? इति चेदुच्यते,
सुदाक्षिण्योऽभ्यर्थित एवं परोपकारं करोति, अयं पुनः स्वत एव परहितरतिरिति ॥२०॥ तह चेव' इति तथाशब्दः प्रकारार्थः । | चः समुच्चये । एवोऽवधारणे । ततश्च यथैव विंशतिस्तथैव तेनैव प्रकारेण लब्धलक्ष्यश्च धर्माधिकारीति पदयोगः। पदार्थस्तु लब्ध इव प्राप्त इव लक्ष्यो लक्षणीयो धर्मानुष्ठानव्यवहारो येन स 'लन्धलक्ष्यः' सुशिक्षणीयत्वात् ॥२१॥ एभिरेकविंशतिमिगुणैःसंपन्नो धर्मरत्नयोग्य इति योजितमेव । इति द्वारगाथात्रितयाक्षरार्थः॥५॥६॥७॥
भावार्थ पुनः प्रकरणकारः स्वयमेवाहखुद्दोत्ति अगंभीरो उत्ताणमई न साहए धम्मं । सपरोवयारसतो अक्खुद्दो तेण इह जोग्गो ॥ ८॥ इह यद्यपि क्षुद्रशब्दोऽनेकार्थः । तद्यथा-"क्षुद्रस्तुच्छः, क्षुद्रः क्रूरः, क्षुद्रो दरिद्रः, क्षुद्रो लघुः” इत्यादि । तथाऽपीह क्षुद्र १“न कुकर्मत्वात्" इत्यपि । २ "धर्माविबन्धक-" इत्यपि ॥