________________
जो परिभावइ एयं सम्मं सिद्धंतगब्भजुतीहिं । सो मुत्तिमग्गलग्गो कुग्गहगत्तेसु न हु पडइ ॥ १४४ ॥ 'य: ' कचिल्लघुकर्मा ' परिभावयति' सम्यगालोचयति 'एनं ' पूर्वोक्तं धर्मलिङ्गभावार्थ 'सम्यगू' मध्यस्थभावेन सिद्धान्तगर्भाभिरागमसाराभिर्युक्तिभिरुपपत्तिभिः 'सः' प्राणी मुक्तिमार्गे निर्वाणनगराध्वनि लम्रो गन्तुं प्रवृत्तः क्रग्रहा दुष्पमाभाविनो मतिमोहविशेषास्त एवं गर्त्ता अवटा गतिविधातहेतुत्वादनर्थजनकत्वाच्च तेषु नैव पतति । हुशब्दस्यावधारणार्थत्वात् । अत एव सुखेन सन्मार्गेण गच्छति । इति गाथार्थः ॥ १४४ ॥
उक्तं प्रकरणार्थ परिभावनस्यानन्तर फलं, अधुना परंपरफलमाह -
इय धम्मरयणपगरणमणुदियहं जे मणमिभावेति । ते गलियकलिलपंका नेव्वाणसुहाई पार्श्वेति ॥१४५॥ 'इय' शब्द इतिशब्दार्थे प्राकृते दृश्यते । इत्यनन्तरोक्तं धर्मरत्नमुक्तान्वर्धम्, तत्प्रतिपादकप्रकरणं शास्त्रविशेषो धर्मरत्नप्रकरणं ' अनुदिवस' प्रतिदिनं, उपलक्षणत्वात् प्रतिसन्ध्यं प्रतिप्रहरमित्यपि द्रष्टव्यम् । 'ये' केचिदासन्नमुक्तिगमा 'मनसि ' हृदये 'भावयन्ति' विवेकसारं चिन्तयन्ति 'ते' शुभशुभतराध्यवसाय भाजो, गलितोऽपेतः कलिलपङ्कः पातकमलोत्करो येभ्यस्ते तथाविधाः निर्वाणसुखानि ' अपवर्गशर्माणि ' प्राप्नुवन्ति ' लभन्ते । कीदृशानि पुनस्तानि ? इति चेदुच्यते - “ नवि अत्थि माणुसाणं तं सोक्खं नविय सव्वदेवाणं । जे सिद्धागं सोक्खं अव्वाचा ज्वगयाणं ॥ १ ॥ जह नाम कोड़ मेच्छो नगरगुणे बहुविहेचि जाणतो । न चण्ड़ परिकहेडें उपमाए तहि असंतोए ॥ २ ॥ इय सिद्धाणं सोक अणोवमं नत्थि तस्स ओवम्मं । किंचि विसेसेणेत्तो सारिक्वभिणं सुगह वोच्छं ||३|| " तच्च सादृश्यमिदम् - " वेणुवीणामृदङ्गादिनादयुक्तेन हारिणा । श्लाघ्यस्मरकथाबद्ध गीतेन स्तिमितः