________________
धर्मरत्न
प्रकरणम्
॥ ८१ ॥ ।
अन्यजनोपकारकरणलम्पटैः । किं तत् ? इस्याह - एकविंशतिभिर्गुणैरुपेतो युक्तो 'योग्यः ' उचित: ' सकृत् ' सदा ' धर्मरत्नस्य' उक्तस्वरूपस्य । इति गाथार्थः ॥ १४१ ॥
अथ प्रकृतप्रकरणार्थमनुवदन्नुपसंहारगाथायुग्ममाह---
'धम्मरयणोच्चियाणं देसचरित्तीण तह चरितीणं । लिंगाई जाई समए भणियाई मुणियतत्तेहिं ॥१४२॥ | तेसि इमो भावत्थो नियमइविभवाणुसारओ भणिओ । सपराणुग्गहहेउं समासओ संतिसूरीहि ॥१४३॥
" धर्मरत्नोचितानां ' उक्तस्वरूपाणां 'देशचरित्रिणां ' (देश ) विश्तानां तथा 'चरित्रिणां सर्वविरतानां ' लिङ्गानि ' चिह्नानि यानि 'समये ' सिद्धान्ते ' भणितानि ' अभिहितानि 'मुनिततच्चैः ' अवयुद्धसिद्धान्तसद्भावैः । तेषां 'अयं ' उक्तस्वरूपी 'भावार्थः ' तात्पर्य 'निजमतिविभवानुसारतः ' स्वबुद्धिसंपदानुरूपं 'भणित: ' सिद्धान्ताम्भोधेः पारस्य लब्धुमशक्यत्वात् यावदेवावबुद्धं तावदेव भणितमिति भावः । किमर्थं पुनरियान प्रयासः कृतः ? इत्याह- स्वपरयोरनुग्रह उपकारः, स एव हेतुः कारण यस्य भस्य तत् ' स्वपरानुग्रहहेतु '। सोऽप्यागमादेव भविष्यतीति चेन्न, तत्रागमे कोऽयर्थः क्वापि मणितः, तमल्पायुपोऽल्पमेधसयुगीना नावगन्तुमीशा इति समासतोऽल्पग्रन्थेन भणितः । कैः ? इत्याह-शान्तिप्रधान मध्यस्थसुस्थचेतोभिः सरिभिराचार्यैः । इति गाथायुग्मार्थः ॥ १४२ ॥ १४३ ॥
अथ शिष्याणामर्थित्वोत्पादनायोक्कशास्त्रार्थपरिज्ञानस्य फलमुपदर्शयन्नाह -
२ " धम्मरयणत्थियाणं देसविरत्तोण " इत्यपि । २ " धर्मरत्नार्थिनां " इत्यपि ॥
***
स्वोपज्ञवृत्तियुक्तम्
॥ ८१ ॥