________________
धर्मरनप्रकरणम्
॥ ८० ॥
तेसिमेव य नाणीणं सम्मं नो पडितप्पइ ॥ १ ॥ " क्रियापदं च पर्यन्ते " महामोहं पकुब्बइ " इति । तओ भणितम् । इति गाथार्थः ॥ १३७ ॥
आह गुरोः सामर्थ्याभावे यदि शिष्योऽधिकतरं तपः करोति तत्किं युक्तमाहोस्विदयुक्तं ? गुसेर्लाघवहेतुत्वात्, इत्यत्रोच्यते, गुरुसन्निधौ युक्तमेव, गुरोर्गेरवहेतुत्वात् । तथा हि सदाचारे चारिणि शिष्ये भवत्येव गुरोः साधुवादः, पुत्र पितुरिख । किन्तु —
सर्विसेसंपि जयंतो तेसिमवन्नं विवज्जए सम्मं । तो दंसणसोहीओ सुद्धं चरणं लहइ साहू ॥ १३८ ॥
'सविशेष' शोभनतरं, अपिशब्दात् समानमपि । किं मत्तोऽप्येषोऽधिकं करोतीति भावनया ' यतमानः ' सदनुष्ठानोद्योगवान् 'तेषां ' गुरूणां 'अवज्ञां' अभ्युत्थानाद्यकरणरूपां 'वर्जयति' न करोति 'सम्यक' शुद्धपरिणामो भावसाधुरिति प्रकृतत्वात् । ततश्च दर्शनशुद्धेतोः 'शुद्ध' अकलङ्कं ' चरणं' चारित्रं ' लभते ' प्राप्नोति साधुः, भावमुनिरिति । अयमत्र भावार्थ:- सम्यक्त्वं ज्ञानचरयोः कारणम् । यत एवमागमः - " नादंसणस्स नाणं नाणेण विणा न हुंति चरणगुणा । अगुणस्स नत्थि मोक्खो नत्थि अमुक्रवस्स निव्वाणं ॥ १ ॥ " तच्च गुरुबद्दमानिन एव भवति, अतो दुष्करकारकोऽपि तस्मिन्भवज्ञां न विदध्यात्, तदाज्ञाकारी च भूयात् । यत उक्तम् - "छट्टट्टमदसमदुवालसेहिं मासद्धमासखमणेहिं । अकरेंतो गुरुवयणं अनंतसंसारिओ होइ || १ ||" इति गाथार्थः ॥ १३८ ॥ अथ साधुधर्मलिङ्गनिगमनं, तत्फलं चाभिधित्सुराह
. इय सत्तलक्खणधरो होइ चरिती तओ य नियमेण । कल्लाणपरंपरलाभजोगओ लहइ सिवसोक्खं ॥१३९॥
19
स्वोपज्ञवृत्तियुक्तम्
|| 02 ||
८० ॥