________________
स्वोपक्ष
धमेनप्रकरणम्
वृत्तियुक्तम्
॥७९॥
गरणदेहचोक्खा रिद्धीजस गारवा सिया निच्चं । बहुसबलछेयजुत्ता निग्गंथा बाउसा भणिया ॥१॥" कुशीलाः सातिचारज्ञानादिगुणाः । यदाह-"आसेवणा कसाए दुहा कुसीलो दुहावि पंचविहो । नाणे दंसण चरणे तवे य अह मुहमए चेव ॥१॥ इह नाणाइकुसीलो 'उवजीव होइ नाणमाईणि। अह सुहमो पुण तुस्सं एस तवस्सित्ति संसाए ॥ २॥" एत एव सर्वतीर्थकृतां तीर्थसन्तानकारिणः संभवन्ति, अपरविकल्पानामभावात् । ततः किम् ? इत्याह-दोषलाः' सूक्ष्मदोषाः 'तेषु' बकुशकुशीलेषु नियमसंभविनः । यतस्तेषां वे गुणस्थानके प्रमत्ताप्रमत्ताख्येऽन्तर्मुहर्तकालावस्थायिनी । ततो यदा प्रमत्तगुणस्थानके वर्तते तदा प्रमाद्यपि चारित्रवानेव, यावत्सप्तमप्रायश्चित्तापिराधम् । ततः परमचारित्रः स्यात् । उक्तं च-"छेयस्स जाव दाणं ता वयमेगंपि नो अइकमइ । एगं अइकमंतो अइक्कमे पंचमूलेण ।। १॥" अत एव पार्श्वस्थादीनामपि केषांचिश्चारित्रमिष्यते । यतोऽभाणि-"पासत्थाईयाणं अब्भुटठुत्ताण जेसि पच्छितं ' मूलाईय भणिय ते निश्चरणा न उण अन्ने ॥ १॥" तदेवं बकुशकुशीलेषु नियमभाविनो दोषलवाः, यदि च तैर्वर्जनीयो यतिः स्यात् , अवर्जनीयस्ततो नास्त्येव । तदभाचे तीर्थस्याप्यभावप्रसङ्गः । इति गाथार्थः ॥१३५॥
अस्योपदेशस्य फलमाहइय भावियपरमत्था मज्झत्था नियगुरुं न मुंचंति । सत्वगुणसंपओगं अप्पाणमिवि अपेच्छंता ॥१३६॥
'इति' पूर्वोक्तमकार वितो मनसि परिणामितः परमार्थों यथावस्थितपक्षो येस्ते तथा. 'मध्यस्थाः' कुग्राहाघदूषिताः 'निजगुरुं' आत्मीयधर्माचार्य 'नमुश्चन्ति 'नव व्युत्सृजन्ति, 'सर्वगुणसंप्रयोग समग्रगुणसामग्रीमात्मन्यपि 'अपश्यन्तः' अनवलोकयन्तः।
१ " उवजीवी" इाप ।
॥ ७९ ॥