________________
HिHHHHHHHH.'
इहरा वुत्तगुणाणं विवजओ तह य अत्तउकरिसो। अप्पच्चओजणाणं बोहिविघायाइणोदोसा ॥१३४॥
'इतस्था' इतरगुरुपरित्यागरूपेण 'उक्तगुणानां' गुरुबहुमानादीनां 'विपर्ययः' अभावोऽबहुमानाकृतज्ञतादिदोषसद्भावो वा स्यात् । तथा 'आत्मोत्कर्षश्च' आत्मनि सौष्ठवाभिमानश्चानर्थपरंपराकारणं गुरुकुलवासत्यागिनः स्यात् । तथा 'अप्रत्ययः' अविश्वासश्च 'जनानां' लोकानां साधुविषये स्यात् । यदुत परस्परविभिन्नानामन्योन्यानुष्ठानदृषकाणामेतेषां न ज्ञायते कोऽपि सत्यवाद्यलीकवादी वेति । ततश्च को दोष ? इति चेदच्यते, बोधिविघातः प्रेत्यजिनधर्मप्राप्त्यभावस्तेषां व्यलीकभाजा, तन्निमित्तभूतस्य यतेरपि, आदिशवादावपातश्च । सम्यग्दर्शनाभिमुखानां चारित्राभिमुखानां च स्यात् । एते 'दोषाः' दृषणानि गुरुत्यागकारिणां भवन्ति । इति गाथार्थः॥१३४ ॥
ननु पूर्व क्रियास्वप्रमादः चारित्रिणो लिङ्गमुक्तम् , इदानीं तु प्रमादवानपि गुरुचारित्रवानेवेति न मोक्तव्य इत्युच्यने तत्कथं न पूर्वापरविरोधः ? सत्यम् , अप्रमादचारित्रिणी लिङ्गं तदविनाभावित्वेनोक्तं, बहेर्थमवत् । दृश्यते च क्वापि निदग्धन्धनोऽवष्टन्धी वा धर्म विना वहिः । एवं प्रमादिनोऽपि चारित्रमित्यत एवाहबकुसकुसीला तित्थं दोसलवा तेसु नियमसंभविणो।जइ तेहिं वजणिज्जो अवज्जणिज्जो तओ नस्थि॥१३५॥
यदि वेह पञ्चविधा यतयः-पुलाकाः, बकुशाः, कुशीलाः निर्ग्रन्थाः, स्नातकाच । तत्र नियमेनाप्रमादिनो निग्रन्थाः स्नातकाश्च, किं तु ते कदाचिदेव श्रेणिमस्तकारोहणे केवलज्ञानोत्पत्तौ च भवन्तीति न तीर्थप्रवाहहेतवः । पुलाकोऽपि कदाचिदेव लान्धसद्भावे संभवतीति चेतस्याधायाह-"वकसकसीला" गाहा। तत्र चकमा: शरीरोपकरणविभूषाकारिणः। यदाह-" उव