________________
धर्मरत्नप्रकरणम्
स्वोपज्ञवृत्तियुक्तम्
॥ ७८॥
गुरुः, सामान्यगुरुः परमगुरुश्च । तत्र सामान्यगुरुरनन्सरो धर्माचार्यादिः । परंपरः पूर्वपूर्वतरपूर्वतमादिचिन्तयाऽनेकविधो यावत् सुधर्मस्वाम्यादिः। परमगुरुभगवांस्तीर्थकरः । ततधानन्तरगुरुषहुमानेन येनासौ स्थापितस्तस्मिन् बहुमानकृतो भवति । तद्बहुमानेन पूर्वतरे यावदावलिकादिभूते गणधरे, ततस्तदाराध्ये भगवति परमगुरुतीर्थाधिनायके । अत. एवोक्तं परमगुरुणा-“जे गुरुं मन्नए से ममं मन्नए जे ममं मन्नए से गुरुं मन्नए"। इत्येवमनेकभेदगुरुषहुमानकृतो भवतीति । यथा कृतज्ञता चाराधिता भवति । प्रधानश्चायं पुरुषस्य गुणो लोकेऽपि गीयते । यदुक्तम्-“दो पुरिसे धरउ धरा अहवा दोहिंपी धारिया वसुहा । उवयारे जस्स मई उवयरियं जो न पम्हुसइ ॥१॥"लोकोत्तरेऽप्येकविंशतिगुणमध्ये पठित एवेति । तथा सकलगच्छस्य गुणानां वृद्धिराधिक्यं कृतं भवति गुरुममुञ्चता । तथा हि-सम्यगात्रावर्सिनो गच्छस्य गुरुर्बानादिगुणान् पर्दयत्येव । यदि पुनस्ते शिष्याः-".वाइया संगहिया य भत्तपाणेहि पोसिया । जायपंखा जहा हंसा पक्कमति दिसोदिसं ॥१॥" ततस्तान् खलुकप्रायानवबुद्धथ न केवलं न शिक्षयति गुरुः, तत्परित्यागं च विधत्ते, कालिकाचार्यवदिति । तथाऽनवस्था मर्यादाहानिस्तस्याः परिहारकृतो भवति गुरुममुश्चतेति। अयमभिमायः-य एकं गुरुमल्पदोषमपि मुश्चति, तमन्येऽपि न संगृह्णन्ति, सूक्ष्मदोषाणां परिहर्तुमशक्यत्वात् । संगृहीतोऽपिन स्थिरो भवति, अत एकाकित्वमालम्बते । तं च स्वेच्छाचारसुखितमालोक्यान्योऽप्यन्योऽपि तदेवाङ्गीकरोति । एवंप्रकारानवस्थापरिहता भवति गुरुसेवकेनेति । 'भवन्ति ' जायन्ते 'गुणा एवमादयः' अन्येऽपि गुरुग्लानबालवृद्धादीनां विनयवैयावश्यकरणादयः सूत्रार्थागमस्मारणादयोऽपि भूयांसः । इति गाथार्थः ॥ १३३॥
एवमकरणे पुनः किं स्यात् ? इत्याह
॥ ७८॥