________________
गृहीत, किं तु तच्छरीराच्छरानुत्पाटयन्तः पादेन स्पर्शनं मा कृवं, यतो गुरोरवज्ञा महते पातकाय संपद्यत इति ।।
यादृशोऽस्य शबरराजस्य गुरोर्मारणं कारयतः पादस्पर्श च वारयतो विवेकस्तादृग्गुरुकुलत्यागिनः शुद्धोञ्छादिलालसस्य साधोरिति भावः । तथा कर्मशब्देनाधाकर्मोच्यते, आदिशब्देन सकलोद्मोत्पादनेषणादोपपरिग्रहः। तत्रोद्गमदोषाः-"आहाकम्मुद्देसिय पूईकम्मे य मीसजाए य । ठवणा पाहुडियाए पाहुयरकीयपामिच्चे ॥१॥ परियट्टिए अभिहडे उन्भिन्ने मालोहडे य । अच्छेज्जे अणिसड्ढे अज्झोयरए य सोलसमे ॥२॥" उत्पादनादोषाः- “धाई दुइ निमित्ते आजीव वणीमगे तिकिच्छा य। कोहे माणे माया लोभे य हवंति दस एए॥१॥ पुब्धि पच्छा संथव विज्जा मंते य चुन्नजोगे य । उप्पायणाए दोसा सोलसमो मूलकम्मे य ॥ २॥" एषगादोषाः-"सकियमक्खियनिक्खितपिहियसाहरियदायगुम्मीसो । अपरिणयलित्तछड्डिय एसणदोसा दस हवंति ॥१॥" एतद्दोषदुष्टमप्याहारादि 'परिशुद्धं ' निर्दोषमेव, अपिशब्दस्यावधारणार्थस्येह योगात् 'गुर्वाज्ञावर्तिनः' आराध्यादेशविधायिनो, गच्छवासिन इति हृदयम् । 'ब्रुवते' प्रतिपादयन्त्यागमतत्वविदः । इति गाथार्थः ।। १२८ ॥
_ अत एव गुर्वाज्ञाकारिण विशेषतः स्तुवन्नाह8| ता धन्नो गुरुआणं न मुयइ नाणाइगुणगणनिहा(या)णं। सुपसन्नमणोसययं कयन्नयं मणसि भावितो१२९/ 8
यस्माद्गुर्वाज्ञा गरीयसे गुणाय, 'तस्मात् ' हेतोर्धन्य एव गुर्वाज्ञां 'न मुश्चति' नोज्झति । किविशिष्टाम् ? ज्ञानादिगुणगणस्य निदानं कारणम् । उक्तं च-"नाणस्स होइ भागी थिरयरओ देसणे चरित्ते य । धन्ना आवकहाए गुरुकुलवासं न मुञ्चन्ति
१ अन्यत्र “ मणिनिहाणं " इत्यस्ति ।