________________
धर्मरत्रप्रकरणम्
स्वोपनवृत्तियुक्तम्
॥ ७४॥
KIRATRIOR
॥१॥" सुष्टु अतिशयेन प्रसन्नमना निर्मलमानसो निष्ठुरमपि शिक्षितो न कुप्यति, न कलुषयत्यन्तःकरणम् । केवलम्-"जं | मे बुद्धाणुसासंति सीएण फरुसेण वा । मम लाभोत्ति पेहाए पयओ ते पडिसुणे ॥१॥" कथम् ? 'सततं' अनवरत कृतज्ञताम्' उपकाराविस्मृतिरूपां ' मनसि' हृदये 'भावयन् ' अवस्थापयन् । तद्यथा-"टोलो' व्व लोढुलंतो अहयं विनाणनाणनिलएण । देवो व्व वंदणिज्जो कोम्हि गुरुमुत्तहारेण ॥१॥" इत्थंभूत एव धन्यो भवति, धर्मधनार्हत्वात् । इति गाथार्थः ॥ १२९ ॥
आह-किं योऽपि सोऽपि गुणसंपत्तये सेवनीय आहोश्वित्कश्चिद्विशिष्ट एव ? इति प्रश्ने प्रतिवचनमाहगुणवं च इमो सुत्ते जहत्थगुरुसहभायणं इट्ठो । गुणसंपया दरिदो जहुत्तफलदायगो न मओ ॥१३०॥
चशब्दस्यावधारणार्थत्वात् ' गुणवानेव ' गुणगणालङ्कृत एव 'अयं' इति गुरुः ‘सूत्रे' सिद्धान्ते, यथार्थः सान्वयो यो गुरुशब्दस्तस्य भाजनमाधारः 'इष्टः' अभिप्रेतः । तथा हि गुरुशब्दस्य यथावस्थितं शास्त्रार्थ गृणातीति गुरुः, इत्यन्वयः । स च | संविग्नस्यैव युज्यते, अतः संविग्न एव गुणवान् , नान्यः । तस्य च गुणाः प्राधान्येन-"'वयछकं "कायछकं "अकप्पो "गिहिभायणं । "पलियंकनिसिज्जाय सिणाणं" सोहवज्जणं ॥१॥एभिविना गुरुत्वाभाव एव, तन्तुभिर्विना पटाभाववत् । शेषास्तु - " पडिरूवो तेयस्सी" इत्यादयो देशकुलजात्यादयोऽन्येऽपि गणिसंपदादयो विशेषगुणाः कादाचित्काः, पटस्य रक्तत्वादिवत् । तत्रेह प्रधानगुणैर्युक्तो गुणवानभिप्रेतः, कार्यसाधकत्वात् । सत्सु तेषु शेषगुणसंप्रयोगोऽपि वरीयानेवेति । विपर्यये पुनः किं स्यात् ? इत्याह-"गुणसंपदा ' सद्गुणविभूत्या करणभूतया 'दरिद्रः' दुर्गतो यथोक्तं गुरुसंप्रयोगे फलं, तस्य दायकः संपादयिता 'न
१ अन्यत्र “ टोलु व्व दुलदुलंतो" इत्यस्ति ।।
।। ७४ ॥