________________
धर्मरत्र
स्वोपज्ञ|वृत्तियुक्तम्
प्रकरणम्
॥७३॥
GIRRRRRRISH
नन्वागमे यतेराहारशुद्धिरेव मुख्यश्चारित्रशुद्धिहेतुरुपुष्यते । यत उक्तम्-पिंडं असोहयंतो अचरित्ती एत्थ संसओ नत्थि। चारितमि असंते निरस्थिया चेव पन्चज्जा ॥१॥" पिण्ड विशुद्धिश्च बहूनां मध्ये वसतातिदुष्करैवेत्येकाकिनापि भृत्वा सेव विधेया। किं ज्ञानादिलाभेन कार्यम् ? मूलभूतं चारित्रमेव पालनीयं, मूले सत्येव लाभचिन्ता ज्यायसी, इति पराभिप्रायमाशङ्कयाहएयस्स परिच्चाया सुबुंछाइवि न सुंदरं भणियं । कम्माइवि परिसुद्धं गुरुआणावत्तिणो बिति ॥१२८॥ ___ 'एतस्य ' गुरुकुलवासस्य 'परित्यागात् ' सर्वतो मोचनेन 'शुद्धोञ्छादि ' शुद्धभैक्षोपधिप्रमुखं न 'सुन्दरं' शोभनं भणितमागमज्ञैरिति गम्यते । यतस्तदुक्तिः-"सुद्धंछाइसु जत्तो गुरुकुलचागाइणेह विन्नेओ । सबरससरक्खपिच्छत्थघायपायाच्छिवणतुल्लो ॥१॥" अस्य व्याख्या-शुद्धोञ्छं निर्दोषभेक्षम् , आदिशब्दात्कलहममत्वपरिहारे च यत्न उद्यमः, गुरुकुलत्यागेन, आदिशब्दासूत्रार्थहान्या ग्लानादित्यागेन चेह जिनमते विज्ञेयो बोद्धव्यः । कथंभूतः ? इत्याह-शवरराजस्य सरजस्कस्य पिच्छार्थ घाते पादास्पर्शनतुल्यश्चरणासंघटनादेशकल्प इति । संविधानकसंप्रदायश्चेत्याह
क्वचित्संनिवेशे शबराभिधानः सरजस्कभक्तो राजा बभूव । तस्यैकदा दर्शनार्थमुपरिधार्यमाणमयूरपतत्रछत्रो गुरुराजगाम । कृतसम्मानस्योपनिविष्टस्य च राजप्रियतमा तदातपत्र चश्चच्चाकचिक्याऽनेकचन्द्रकराजिराजितमवलोक्य कुतूहलातिरेकतस्तं प्रार्थयितुमारेभे। तत्र च देशे मयूराभावाद्दर्लभानि मयूरपिच्छानीत्यसावदित्सन्नुत्थाय स्वाश्रयमगमत् । ततो राज्ञी कृताभोजननिश्चया तदानयनाय
राजानं प्रोत्साहयाञ्चकार । राज्ञापि यदा पुनः पुनः प्रार्थितोऽपि न दराति गुरुः, तदा दुर्वारप्रेमग्रहमोहितेन हठादेव गृहीत्वानयत | तानि, इत्यादिष्टाः पदातयः प्रत्यूचुः-नासौ जीवनपयति, महारैश्वोपतिष्ठते । ततो राजोवाच-दूरस्था एव तं बाणेरचेष्टं कृत्वा
संविधानकसंप्रदाया। कथंभूतः ? इत्याह रचयत्न उद्यमः, गुरुकुलस्य
॥७३॥