________________
' शक्ये ' सामर्थ्योचिते समितिगुप्तिप्रत्युपेक्षणास्वाध्यायाध्ययनादौ 'न प्रमाद्यति' नालस्यवान् स्यात् । 'अशक्ये ' जिनकल्पमा सक्षपणादौ 'प्रवृत्ति' अङ्गीकारमकुर्वन् शक्यारम्भो भवतीति गम्यते । स च 'चरणं संयमं 'विशुद्धं' अकलङ्कमनुरूपं कालसंहननादीनां ' पालयति' वर्द्धयति ' एवं ' उक्तन्यायेन सम्यगारम्भस्येष्टसिद्धिहेतुत्वात् । इति गाथार्थः ॥ ११८ ॥
ननु धर्ममपि कुर्वन् किं कश्चिदसदारम्भः स्यात् ? उच्यते, स्यादेव मतिमोहमानातिरेकवशात्। कथमिव १ क इव ? इति
पराकूतमाशङ्कयाह
जो गुरुमवमन्नं तो आरंभ किर असक्कमवि किंचि । सिवभूइ व्व न एसो सम्मारंभो महामोहा ॥ ११९ ॥
' यः कश्चिन्मन्दमतिः 'गुरुं' धर्माचार्य ' अवमन्यमानः ' हीनाचारोऽयमित्यवज्ञया पश्यन् 'आरभते ' प्रकर्तुं प्रतिजानीते, 'अशक्यं' कालसंहननाननुरूपं जिनकल्पादिकम् । अपिशब्दाच्छनयमपि किञ्चित् विकृतिपरिहारादिकं गुरुभिरक्रियमाणमेव, न तु शेषमनुष्ठानमिति प्रकृतम् । 'शिवभूतिवि ' आद्यदिगम्बरवत् । नैव 'एषः ' प्रक्रान्तपुरुषः 'सम्यगारम्भः सत्प्रवृत्तिर्महामोहाद्धेतोः । अयमाशयः - नाकृतज्ञताज्ञानातिरेकौ विना कश्चिद्गुरोः परमोपकारिणश्छायाभ्रंशायोत्सहते । इति गाथाक्षरार्थः । भावार्थः कथानकगम्यः ॥ तच्चेदम्
रहवीरपुरे नयरे सीहरहो नाम पत्थिवा होत्था । साहसबलमाणधरो सिवभूई तस्स पाइको ॥ १ ॥ म्ररोति समाइट्ठो सो महुरासामिणो गहणकज्जे । सामंतमतिसहिओ दिनंमि पयाणए पढमे || २ || संदेहो संजाओ सामंताईण तत्थ सव्वेसिं । उत्तरदाहिणमहुराण का णु घे समासो || ३ || पुण पुच्छियंमि नियमा रूसह रायत्ति किमिह कायन्वं । इय चिंताउलहियया भणिया