________________
याणइ विसेसं ।वोत्तुंपि तस्स न खमं किमंग पुण देसणं काउं ॥१॥" एवंविधोऽपि गुरुणाऽनुन्नातो न स्वातन्त्र्येण मौखर्यास्थैर्यातिरेकात् । उक्तं च-"आचार्ये 'ब्रयमाणे यस्तिष्ठत्यन्तिकगोचरे । करोत्याचार्यकं मूढः शिष्यतां दूरमुत्सृजन ॥१॥ नासौ शिष्यो न वाचार्यों निधर्मः स कुमार्गगः । सर्वतो भ्रंशमायातः स्वाचारात्साधुनिन्दितः ॥ २॥" तस्माद्गुर्वनुज्ञातो 'धन्यो' धर्मधनार्हत्वात् ' मध्यस्थः' स्वपक्षपरपक्षयो रागद्वेषरहितः सद्भूतवादी 'देशनां' धर्मकथां करोति । इप्ति गाथार्थः ।। ९५ ॥
तथा
अवगयपत्तसरूवो तयणुग्गहहेउभावबुड्किरं । सुत्तभणियं परूवइ वजंता दूरमुम्मग्गं ॥ ९६ ॥
अवगतं सम्यगवबुद्धं पात्रस्य श्रावणीयस्य प्राणिनः स्वरूपमाशयो येन स तथा । तथाहि-बालमध्यमबुद्धिबुधभेदात्रिविधं पात्रं श्रावणीयं भवति। तत्र-"बालः पश्यति लिङ्ग मध्यमबुद्धिर्विचारयति वृत्तम् । आगमतत्त्वं तु बुधः परीक्षते सर्वयनेन ॥१॥" तेषां चदेशनाविधिः-" बाह्यचरणप्रधाना कर्त्तव्या देशनेह बालस्य । स्वयमपि च तदाचारस्तदग्रतो नियमतः सेव्यः ॥१॥ मध्यमबुद्धेस्त्वीर्यासमितिप्रभृतित्रिकोटिपरिशुद्धम् । आद्यन्तमध्ययोगैहितदं खलु साधुसवद्वत्तम् ॥२॥" इत्यादि पात्रानुरूपां देशनां करोति।" यद्भाषितं मुनीन्द्रः पापं खलु देशना परस्थाने । उन्मार्गनयनमेतदभवगहने दारुणविपाकम् ॥१॥" इति । अथवोत्सर्गप्रियमपवादप्रियं पारिणामिकं च पात्रं त्रिविधम् । इत्यादिपात्रस्वरूपमवगम्य श्रद्धावांस्तस्य पात्रस्यानुग्रहहेतुरुपकारकारी यो भावः शुभपरिणामस्तस्य वृद्धिकरम् । तदपि 'सूत्रभणितं' आगमोक्तं 'प्ररूपयति' व्याचष्टे, 'वर्जयन्' उत्सृजन् 'दूरं' यथाभवत्येवं
१ ‘प्रियमाणे ' इत्यपि ॥